This page has been fully proofread twice.

नोऽहमागच्छामि, तावत्त्वया शुश्रूषमाणया गुरुजनमिह स्थातव्यम्' इति ॥
 
निशम्य चेदमश्रुतपूर्वमतिदुःसहं वचनमस्माकम्, अकस्मादेव मूर्च्छितेयम् । उच्छिन्नसंज्ञा च तिर्यक्पतन्ती सत्वरेणोपसृत्य धारिता परिजनेन । स्थित्वा च क्षणं समाश्वस्ता । निःश्वस्य चातिदीर्घम्, इदम् अपारदुःखभारभिद्यमानगलसरण्या गदितम् अनया स्वरेण गद्गदेन स्वैरम् -- 'आर्यपुत्र, संतानकार्यसिद्धये तव प्रस्थितस्य नाहं परिपन्थिनी । कि पुनरिदं विज्ञापयामि
-- यथा तव, तथा ममाप्याराधनीया देवता । एवं च कस्मात्परित्यज्य मामेक एव व्रजसि वनम् । अथ मन्यसे मदीयाराधनेनैव सिद्धं तवाराधनमिति, कस्यात्र संदेहः । कि त्विदानीं त्वमुज्झितापरान्तःपुरिकासमीहितो मत्कृते, व्रतं चरिष्यसीति वचनशतैरपि न प्रत्येमि । न च त्वया विरहिता मुहूर्तमपि स्थातुं शक्नोमि । तदवश्यं मयापि गन्तव्यमरण्यम् । अवमन्य चेद्गच्छसि माम्, गम्छ । सिध्यतु तवाभीष्टम् । दृष्टस्त्वमधुनैव ।' इत्यभिधाना ललाटविलुलितविशृङ्खलालकपद्धतिरधोमुखीभूता । भूयोऽप्यनुबध्यमानया च निषिध्यमानया च निःशब्दं रुदितमनया, न पुनः किंचिदुदितम् । तदियमस्थान एवात्मानुगमनेन कुर्वती मे गमनभङ्गं भगवतोऽपि युज्यते वक्तुं यथायुक्तम् ॥"
 
इत्युक्तवति पार्थिवे चित्तपरिभाविततदीयोपतापदावदत्तोद्वेगो मुनिस्तत्क्षणमेव योगनिद्रामगात् । उन्मुद्रितेक्षणश्च अनतिचिरेण सप्रहर्षो नृपमुवाच -- 'राजन्, भुक्तभूयिष्ठमधुना वर्तते तवापत्यसंततिप्रतिबन्धकमदृष्टम् । मनसि धृतिमाधेहि । मा विधाः स्वल्पमपि