2023-02-19 11:24:22 by ambuda-bot
This page has not been fully proofread.
तिलकमञ्जरीसंग्रहः ।
१५
ते कथमसारसांसारिकसुखप्राप्त्यर्थमनेकानर्थहे तुमर्थ गृहन्ति । परा-
र्थसंपादनमपि धर्मोपदेशदानद्वारेण शास्त्रेषु तेषां समर्थितम्;
नान्यथा । तदलमत्र निर्बधेन । कथय तावत्केयमुपहसितसुरलो-
करामणीयका नगरी। कश्चास्यां महाभागस्त्वम् । कतमं च महा-
पुरुषवंशमात्मोत्पत्त्या स्पृहणीयतमतां नीतवानसि । का चेयं पुण्य-
भागिनी सिंहलद्वीपभूमिरिव रत्ननिवहस्य पालमकृत्रिमस्य विन-
यादिगुणगणस्य, पार्श्ववर्तिनी भवतः । किं चाभिधानमस्या: ।
किंनिमित्तं च कोटरोदरनिमनदावाग्निमुर्मुर इव महाद्रुमः, सान्त-
स्ताप इव लक्ष्यते भवान । इयमपि च कल्याणी किमिति म्लान-
देहा पाणितलसंक्रान्तकज्जलकलङ्क पिशुनिता श्रुप्रमार्जना सधोविरतेव
रोदनाद्विज्ञायते । कञ्चिन्न संपन्न: प्रयत्नसंरक्षितस्यार्थस्य कस्यचि
दतर्कितो विनाश: । कश्चिन्न जातः केनापि प्रेमैकनिबन्धनेन बन्धुना
सह प्रवासादिकारणसुलभो विप्रलम्भः । कश्चिन्न संभाविता दुर्ल-
भता चिरं हंदि स्थापितस्य कस्यचिन्मनोरथस्य । कथय यदि
नातिरहस्य श्रवणाई वास्मद्विधानाम् ॥ '
इति कुतूहलाकृष्टेन पृष्टो महर्षिणा क्षोणीपतिरवोचत्-
"भगवन्, सकलदुःखितप्राणिवत्सलानां परमवाङ्मनः कायसंयभवतां
सर्वदा परोपकारप्रवणवृत्तीनां भवादृशामपि किमु रहस्यमश्रावणाईम-
स्ति । एष विज्ञापयामि-- असावस्य सकलस्यापि भारतवर्षस्य चूडालं-
कारभूता अयोध्याभिधाना पुरी । अहमपीक्ष्वाकुकुलसंभवो भोक्ता-
स्य कियतोऽपि भारतक्षेत्रस्य मेदिनीपतिर्मेघवाहनाख्य: । इयमप्यु-
पजातजन्मा महति मूर्धाभिषिक्तक्षत्रियान्ववाये सर्वान्तः पुरप्रधान-
भूता मदिरावती नाम प्रेमपात्रं मे कलत्रम् । अनया अस्माकमविकला