This page has been fully proofread once and needs a second look.

तिलकमञ्जरीसंग्रहः ।
 
दर्शितादरया मदिरावत्या निजोत्तरीयपल्लवेन प्रमृष्टरजसि हेमविष्टरे
न्यवेशयत् ॥
 

 
कृतगृहागतमहर्षिसमुचितसमस्तोपचारश्च तं गुरुमिवाधि-
दैवतमिवोपास्य, सुचिरमास्यनिहितनिश्चलचक्षुरवनीतलोपविष्टः
 
"
 
सप्रश्रयमुवाच -- 'भगवन्, एष तावदभ्रंकषाग्रशिखरस्तुषारगिरि-
-
रिव गङ्गास्रोतसा गगनमण्डलादवतीर्य मुनिगणमाननीयेन गुरुतां

परामारोपितः प्रासादस्त्वया ; तदनु सर्वतः कृतावलोकनेन स्वच्छ-
शिशिरैः शान्त्युदकशीकरैरिव दृष्टिपातैर्दूरीकृतो दुरितराशिरम्य
समग्रस्यापि नगरीनिवासिनो मत्परिग्रहस्य । प्रणामसमये च मूर्धान-
मधिरोपितेन प्रकृतिपूतेन निजपादपांसुना संपादितमखिलतीर्थस्नान-
फलम् । एवं च सामान्येन सर्वतः समुपजातमध्प्यसंजाततृप्तिरधि-
कतरकल्याणसंपल्लाभाय भगवता क्रियमाणमिच्छाम्यात्मनो विशे
षेणानुग्रहम् । इदं राज्यम्, एषा मे पृथिवी, एतानि वसूनि,

असौ हस्त्यश्वरथपदातिप्रायो बाह्यः परिच्छदः, इदं शरीरम्, एत-
द्गृहम्, गृह्यतां स्वार्थसिद्धये परार्थसंपादनाय वा; यदनोत्रोपयोगार्हम् ।'
 
"
 
"
 

 
इति व्याहरन्तं च तं समुपजातहर्षो महर्षिरुवाच -
- 'महाभाग, सर्वमनुरूपमस्य ते महिमातिशयतृणीकृतवारिराशेराश-
यस्य । केवलमभूमिर्मुनिजनो विभवानाम् । विषयोपभोगट-
गृध्रवो हि धनान्युपाददते । मद्विधास्तु संन्यस्तसर्वारम्भा: सम-
भाः समस्तसङ्गविरता निर्जनारण्यबद्धगृहबुद्धयो भैक्षमात्रभावितसंतोषाः
किं तैः करिष्यन्ति । ये च सर्वप्राणिसाधारणमाहारमपि शरीरवृ-
त्तये गृह्णन्ति, शरीरमपि धर्मसाधनमिति धारयन्ति, धर्ममपि मुक्ति-
कारणमिति बहु मन्यन्ते, मुक्तिमपि निरुत्सुकेन चेतसाभिवाञ्छति ;