This page has been fully proofread twice.

णाम्, दुर्विषहतेजसं महामन्त्रमनङ्गविकाराशीविषाणाम्, आचारमिव चारित्रस्य, प्रज्ञानिर्वाहमिव ज्ञानस्य, शुद्धिसंचयमिव शौचस्य, धर्माधिकारमिव धर्मस्य, तैजसं मूर्त्या, पावनं चरितैः, आप्यं पुण्यैः, पार्थिवमतीतकालावस्थया, विद्याधरमुनिमपश्यत् ॥
 
दृष्ट्वा च तमदृष्टपूर्वमुपजातकुतूहलो विस्मयस्तिमितदृष्टिरुपरतनिमेषतया दर्शनप्रीत्युपार्जितेन पुण्यराशिना तस्यामेव मूर्तावाविर्भूतदिव्यभाव इव मुहूर्तमराजत । अभिमुखीभूतं च तं प्रासादस्य,
सुदूरविकासितमुखः समं मदिरावत्या प्रत्युज्जगाम ॥
 
धार्मिकजनानुवृत्यभिमुखानि हि भवन्ति सर्वदा धर्मतत्त्ववेदिनां हृदयानि । यतः -- स तं तथाकृताभ्युत्थानम् आदरातिशयपुनरुक्तस्वागतम् उपारूढप्रौढपुलकप्रकटितान्तःप्रीतिम्
उत्पक्ष्मलोचनयुगललक्ष्यीकृतमुखम् अग्रतः सपरिग्रहमवलोक्य, समुपजातपक्षपातो विसृज्य मुनिभावस्य सहभाविनीं निरपेक्षताम्, अपेक्षितनिजप्रयोजनो जन इवेतरस्तरसा अभिमुख्यभवत् ; अवातरच्चाम्बरतलात् ॥
 
उपरितनकुट्टिमन्यस्तचरणं च तमुपसृत्य सविनयम्, अवनीपतिः प्रगुणीकृतार्घपात्रो विधाय विधिसंपादितया सपर्यया सानन्दम्, आनन्दपर्यश्रुलोचनः प्रणम्य स्वयं समुपनीते सुराज्ञ्या दूर-
 
[commentary]
 
त्रायते रक्षति यः स च । भूतापद्रुहकः भूतानां प्राणिनां अपद्रुहकः द्रोहकर्ता न, पक्षे भूतापं द्रोदोग्धिध्रि यः सः । तेजः कान्तिः, मन्त्रशक्तिश्च । पावनः पवित्रः, पवनसबन्धो च । आप्यः प्राप्यः, जलमयश्च । अपां विकार इत्यर्थे आणि ततः स्वार्थे ष्यञ् । पार्थिवः राजा, पृथिवीविकारश्च ।