This page has been fully proofread twice.

एकदा च राजा, याममात्रे वासरे, समुच्छ्रितानेकभूमिकस्य भद्रशालनाम्नो महाप्रासादस्य पृष्ठे समुपविष्टः समीपदेशोपविष्टया सह तया प्रस्तुतालापः, सहसैवान्तरिक्षेण दक्षिणापथादापतन्तम्, उद्योतितसमस्तान्तरिक्षमार्गम्, प्रचण्डपवनेरितरेणुपटलमिव सुवर्णद्वीपस्य, वैश्रवणरत्नकोशदर्शनकुतूहलादलकापुरीमुच्चलितमन्तरात्मानमिव रोहणाचलस्य, तप्ततपनीयपिङ्गलेन समन्ततः प्रसर्पता देहप्रभाप्रवाहेण संतर्पयन्तमिव क्षीणातपं दिवसम्, त्रयीमिव महामुनिसहस्रोपामितचरणां त्रिभुवनसृष्टिमिव प्रकटोपलक्ष्यमाणब्रह्मसूत्राम् अचिरपरिणतामङ्गलक्ष्मीं दधानम्, अञ्जनत्विषा निजशरीरच्छायापुरुषेण दक्षिणोत्तरभागवर्तिना सदृशवेषाकारधारिणानुगम्यमानम्, अर्धपथदृष्टसिद्धसादरोत्सृष्टाभिरायामिनीभिरर्घकुसुमस्रग्भिः समन्ततो जटिलीकृतेन दुरुत्तरभवकूपनिपतितप्राणिसार्थोद्धरणार्थमधःप्रवर्तितपुण्यरज्जुनेव स्वभावमृदुना चरणद्वयेन द्योतमानम्, नदीतटतरुमिव स्फुटोपलक्ष्यमाणजटम्, क्षेत्रगणितमिव लम्बभुजकर्णोद्भासितम्, अम्बिकायौवनोदयमिव वशीकृतविषमाक्षचित्तम्, निष्परिग्रहमपि सकलत्रम्, भूतापद्रुहकमम्बुधरागमं साधुमयूरा-
 
[commentary]
 
सर्वस्मिन् काले, सकलप्रदा वा । असत्यनिर्मुक्ता असतीभिः स्वैरिणीभिः अनिर्मुक्ता, असत्येन मिथ्यावादेन निर्मुक्ता च । लालितापत्या इति विरोधपक्षे एकपदम् । परिहारे तु लालिता पत्या इति पदद्वयम् । पत्या भर्त्रा उत्सङ्गेन लालितेत्यर्थः ।
 
एकदेति । चरणः पादः, वेदशाखा च । ब्रह्मसूत्रं यज्ञोपवीतम्, विधातुर्व्यवस्था च । अधःप्रवर्तितपुण्यरज्जुनेति बहुव्रीहिः । अर्घकुसुमस्रक्षु तादृशपुण्यरज्जुत्वोत्प्रेक्षा । 'जटा लग्नकचे मूले' । लम्बभुजकर्णाः पारिभाषिका रेखाविशेषाः । प्रकृते तु स्पष्टोऽर्थः । सकलत्रः कलत्रेण भार्यया सहितः, सकलान्