2024-01-18 06:59:12 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  तिलकमञ्जरीसंग्रहः ।
  
  
  
   
  
  
  
  एकदा च राजा, याममालेत्रे वासरे, समुच्छ्रितानेक भूमि-
  
  
  
  कस्य भद्रशालनाम्नो महाप्रासादस्य पृष्ठे समुपविष्ट:टः समीपदेशोप-
  
  
  
  विष्टया सह तया प्रस्तुतालाप:पः, सहसैवान्तरिक्षेण दक्षिणापथादा-
  
  
  
  पतन्तम्, उद्दयोतितसमस्तान्तरिक्षमार्गम्, प्रचण्डपवनेरितरेणुपट-
  
  
  
  लमिव सुवर्णद्वीपस्य, वैश्रवणरत्नकोशदर्शनकुतूहलादलकापुरीमुच्चाल-
  
  
  
  चलितमन्तरात्मानमिव रोहणाचलस्य, तप्ततपनीयपिङ्गलेन समन्ततः प्रस-
  
  
  
  र्पता देहप्रभाप्रवाहेण संतर्पयन्तमिव क्षीणातपं दिवसम्, त्रयीमिव
  
  
  
   महामुनिसहस्रोपामितचरणां त्रिभुवनसृष्टिमिव प्रकटोपलक्ष्यमाण-
  
  
  
  ब्रह्मसूत्रामम् अचिरपरिणतामङ्गलक्ष्मीमीं दधानमम्, अञ्जनत्विषा निज-
  
  
  
  शरीरच्छायापुरुषेण दक्षिणेणोत्तरभागवर्तिना सदृशवेषाकारधारिणानुग-
  
  
  
  म्यमानमम्, अर्धपथदृष्टसिद्धसादरोत्सृष्टाभिरायामिनीभिरर्घकुसुमस्र-
  
  
  
  ग्भिः समन्ततो जटिलीकृतेन दुरुत्तरभवकूपनिपतितप्राणिसार्थोद्धर-
  
  
  
  णार्थमधःप्रवर्तितपुण्यरज्जुनेव स्वभावमृदुना चरणद्वयेन द्योतमानम,
  
  
  
  म्, नदीतटतरुमिव स्फुटोपलक्ष्यमाणजटमम्, क्षेत्रगणितमिव लम्बभुज-
  
  
  
  कर्णोद्भासितम्, अम्बिकायौवनोदयमित्रव वशीकृतविषमाक्षचित्तम,
  
  
  
  म्, निष्परिग्रहमपि सकलत्रम्, भूतापद्रुहकमम्बुधरागमं साधुमयूरा-
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  सर्वस्मिन् काले, सकलप्रदा वा । अमसत्यनिर्मुक्ता असतीभि.भिः स्वैरिणीभिः अनि
  
  
  
  र्मुक्ता, असत्येन मिथ्यावादंदेन निर्मुक्ता च । लालितापत्या इति विरोधपक्षषे एक
  
  
  
  पदम् । परिहारे तु लालिता पत्या इति पदद्वयम् । पत्या भर्त्रा उत्सङ्गेन
  
  
  
   लालितेत्यर्थ ।
  
  
  
   
  
  
  
  १२
  
  
  
   
  
  
  
  →
  
  
  
   
  
  
  
  थः ।
  
  
  
   
  
  
  
  एकदेति । चरणः पादः, वेदशाखा च । ब्रह्मसूत्ररं यज्ञोपवीतमम्, विधा-
  
  
  
  तुर्व्यवस्था च । अधःप्रवर्तितपुण्यरज्जुनेति बहुव्रीहिः । अर्धघकुसुमत्स्रक्षु तादृशपु-
  
  
  
  ण्यरज्जुत्वोत्प्रेक्षा । ' जटा लग्नकचे मूले' । लम्बभुजकर्णा:णाः पारिभाषिका रेखावि
  
  
  
  शेषाः । प्रकृते तु स्पष्टोऽर्थः । सकलत्रः कलत्रेण भार्यया सहिततः, सकलान्