This page has not been fully proofread.

तिलकमञ्जरीसंग्रहः ।
 
एकदा च राजा, याममाले वासरे, समुच्छ्रितानेक भूमि-
कस्य भद्रशालनाम्नो महाप्रासादस्य पृष्ठे समुपविष्ट: समीपदेशोप-
विष्टया सह तया प्रस्तुतालाप:, सहसैवान्तरिक्षेण दक्षिणापथादा-
पतन्तम्, उद्दयोतितसमस्तान्तरिक्षमार्गम् प्रचण्डपवनेरितरेणुपट-
लमिव सुवर्णद्वीपस्य, वैश्रवणरत्नकोशदर्शनकुतूहलादलकापुरीमुच्चाल-
तमन्तरात्मानमिव रोहणाचलस्य, तप्ततपनीयपिङ्गलेन समन्ततः प्रस-
र्पता देहप्रभाप्रवाहेण संतर्पयन्तमिव क्षीणातपं दिवसम्, त्रयीमिव
महामुनिसहस्रोपामितचरणां त्रिभुवनसृष्टिमिव प्रकटोपलक्ष्यमाण-
ब्रह्मसूत्राम अचिरपरिणतामङ्गलक्ष्मी दधानम, अञ्जनत्विषा निज-
शरीरच्छायापुरुषेण दक्षिणेत्तरभागवर्तिना सदृशवेषाकारधारिणानुग-
म्यमानम, अर्धपथदृष्टसिद्धसादरोत्सृष्टाभिरायामिनीभिरर्घकुसुमस्र-
ग्भिः समन्ततो जटिलीकृतेन दुरुत्तरभवकूपनिपतितप्राणिसार्थोद्धर-
णार्थमधःप्रवर्तितपुण्यरज्जुनेव स्वभावमृदुना चरणद्वयेन द्योतमानम,
नदीतटतरुमिव स्फुटोपलक्ष्यमाणजटम क्षेत्रगणितमिव लम्बभुज-
कर्णोद्भासितम्, अम्बिकायौवनोदयमित्र वशीकृतविषमाक्षचित्तम,
निष्परिग्रहमपि सकलत्रम्, भूतापद्रुहकमम्बुधरागमं साधुमयूरा-
सर्वस्मिन् काले, सकलप्रदा वा । अमत्यनिर्मुक्ता असतीभि. स्वैरिणीभिः अनि
मुक्ता, असत्येन मिथ्यावादंन निर्मुक्ता च । लालितापत्या इति विरोधपक्ष एक
पदम् । परिहारे तु लालिता पत्या इति पदद्वयम् । पत्या भर्त्रा उत्सङ्गेन
लालितेत्यर्थ ।
 
१२
 

 
एकदेति । चरणः पादः, वेदशाखा च ब्रह्मसूत्र यज्ञोपवीतम, विधा-
तुर्व्यवस्था च । अधःप्रवर्तितपुण्यरज्जुनेति बहुव्रीहिः । अर्धकुसुमत्रक्षु तादृशपु-
ण्यरज्जुत्वोत्प्रेक्षा' जटा लग्नकचे मूले' । लम्बभुजकर्णा: पारिभाषिका रेखावि
शेषाः । प्रकृते तु स्पष्टोऽर्थः । सकलत्रः कलत्रेण भार्यया सहित, सकलान्