This page has been fully proofread twice.

रिव संकल्पयोनेः, शरत्कालागतिः केलिकलहंसीनाम्, समस्तान्तःपुरशिरोरत्नभूता मदिरावती नाम देव्यभवत् ॥
 
यस्याश्च पुरतो विशुद्धाचारायाः सुरापगेति लोके लब्धसंभावना पावनतया न परभागं प्राप गङ्गा ; प्रीतिप्रतिपक्षभूता सकललोकगणदर्शनीयायास्तृणं गणनायां रतिः ; अधिकमलमात्मानं धारयन्ती शुचितया न काचित्सरस्वती ; मकरध्वजविनाशहेतुः सौभाग्यभङ्गिविचारे रेणुः अचलकन्या ; धनविसरकृतार्थीकृतप्रणयिसार्थाया गत्यभावेन गृहीतरत्नाकरवेला कलयापि न समाना मेदिनी; पर्यन्तज्वलितरत्नदीपमहार्हतल्पशायिन्या निशि तमसि पट्टमधिशयाना न लेशेनापि सदृशविभवा बभूव राजलक्ष्मीः ॥
 
या च परां कोटिमारूढा स्वामिभावस्य सर्वदा सत्त्वे स्थिता, असत्यनिर्मुक्ता स्वप्नेऽप्यजातस्वैरिणीसङ्गा, निरपत्या सततमुत्सङ्गेन लालिता पत्या ॥
 
[commentary]
 
यस्याश्चेति । सुरापगा देवानां नदी, सुराप मद्यपायिन गच्छति या सा च । संभावना प्रवादः । परभागः उत्कर्षः । भूत प्रमथगणः, प्राणिजात च । शिवस्य विरोधित्वेन तदीयानामपि विरोधिता । तृणमपि हि प्रेमास्पदत्वाभावेन प्रीतिप्रतिपक्षभूतम् । गणः समूहः, प्रमथगणश्च । 'तृणगणनायाम्' इति पाठोऽपि नासमीचीनः । अधिकमलं नितरां मलविशिष्टम् । पक्षे, पद्म इत्यर्थः । विभक्त्यर्थे
अव्ययीभावः । न काचित्, सरस्वती शुचित्वविषये गणनीयैव न भवतीत्यर्थः । मकरध्वजः मन्मथः, समुद्रश्च । समुद्रं स्थलीकर्तुं रेणुभिः किल भाव्यमिति श्लेषेण एवमुक्तिः । 'संप्राप्तं मकरध्वजेन मथनम्' इति रत्नावली । गतिः गमनम्, उपायश्च । रत्नाकरवेला समुद्रकूलम् कस्यचित् धनिकस्य समयश्च । कलयापि लेशेनापि । पट्ट फलकं चतुष्पथं वा । पक्षे, निशितं असिपट्टमिति च्छेदः ।
 
या चेति । स्वामिभावः प्रभुता, पत्युरनुरागश्च । सर्वदासत्वं सर्वेषामपि भृत्यता विरोधपक्षे एवम् । परिहारे तु सर्वदा सत्त्वं इति च्छेदः । सर्वदा