This page has been fully proofread once and needs a second look.

तिलकमञ्जरीरिव संग्रहः ।
 
रिव सं
कल्पयोने:नेः, शरत्कालागति:तिः केलिकलहंसीनाम्, समस्तान्त:-
तःपुरशिरोरत्नभूता मदिरावती नाम देव्यभवत् ॥
 

 
यस्याश्च पुरतो विशुद्धाचारायाः सुरापगेति लोके लब्धसं-
भावना पावनतया न परभागं प्राप गङ्गा ; प्रीतिप्रतिपक्षभूता
सकललोकगणदर्शनीयायास्तृणं गणनायां रतिः ; अधिकमलमात्मानं
धारयन्ती शुचितया न काचित्सरस्वती ; मकरध्वजविनाशहेतुः
सौभाग्यभङ्गिविचारे रेणु:णुः अचलकन्या ; धनविसरकृतार्थीकृतप्रणय-
यिसार्थाया गत्यभावेन गृहीतरत्नाकरवेला कलयापि न समाना मेदि-
नी; पर्यन्तज्वलितरत्नदीपमहार्हतल्पशायिन्या निशि तमसि पट्टमधि-
शयाना न लेशेनापि सदृशविभवा बभूव राजलक्ष्मीः ॥
 

 
या च परां कोटिमारूढा स्वामिभावस्य सर्वदा सत्त्वे स्थिता,
असत्यनिर्मुक्ता स्वप्नेऽप्यजातस्वैरिणीसङ्गा, निरपत्या सततमुत्सङ्गेन
लालिता पापत्या
 
११
 
,
 

 
[commentary]
 
यस्याश्चेति । सुरापगा देवानां नदी, सुराप मद्यपायिन गच्छति या सा
च । संभावना प्रवादः । परभागः उत्कर्षः । भूत प्रमथगणः, प्राणिजात च । शिवस्य
विरोधित्वेन तदीयानामपि विरोधिता । तृणमपि हि प्रेमास्पदत्वाभावेन प्रीतिप्रति
पक्षभुभूतम् । गण:णः समूहः, प्रमथगणश्च । 'तृणगणनायाम्' इति पाठोऽपि नास-
मीचीनः । अधिकमलं नितरां मलविशिष्टम् । पक्षे, पद्म इत्यर्थः । विभक्त्यर्थे

अव्ययीभावः । न काचित्, सरस्वती शुचित्वविषये गणनीयैव न भवतीत्यर्थः ।
मकरध्वजः मन्मथः, समुद्रश्च समुद्रं स्थलीकर्तुतुं रेणुभिः किल भाव्यमिति
श्लेषेण एवमुक्तिः । ' संप्राप्तं मकरध्वजेन मथनम्' इति रत्नावली । गति: गम -
तिः गमनम्, उपायश्च । रत्नाकरवेला समुद्रकूलम् कस्यचित् धनिकस्य समयश्च । कल-
यापि लेशेनापि । पट्ट फलकं चतुष्पथं वा । पक्षे, निशितं असिपट्टमिति च्छेदः ।
 
9
 
>
 

 
या चेति । स्वामिभाव:वः प्रभुता, पत्युरनुरागश्च । सर्वदासत्वं सर्वेषा
मपि मृभृत्यता विरोधपक्षे एवम् । परिहारे तु सर्वदा सत्त्वं इति च्छेदः । सर्वदा