This page has been fully proofread twice.

नः ; पितॄणामपि गच्छ' इति याचितप्रसूतेरिव प्रादुर्भूतधर्मवासनतया संनिहितैर्देवर्षिभिः, 'वत्स, निवापदानैरिदानीमायुष्मता संभाविताः स्मः प्रभूतं कालम् ; अग्रतस्तु का गतिरस्माकम्' इति मुहुर्मुहुरुच्यमानस्येव स्वप्नेषु पितृभिः, 'नाथ, कस्यचित्काचिदस्ति गतिः, अहमेव निर्गतिका ; कुरु तत् सांप्रतं यदुचितम्' इति सखेदया संतानार्थमभ्यर्थितस्येव भुजलग्नया भुवा, 'देव, त्वद्वंश्येन गोप्त्रा विना कालान्तरे बलवदरातिहठावलुप्यमानाभिः शरणाय कः समाश्रयणीयोऽस्माभिः' इति विज्ञापितस्येव चित्तस्थिताभिः प्रजाभिः, 'विद्वन्, किमपरैस्त्रातैः ; आत्मानं त्रायस्व पुंनाम्नो नरकात्' इति सोत्प्रासं शासितस्येव गुरुकृतेन श्रुतिधर्मेण, मर्मदाही मुर्मुर इव प्रादुरभवदस्य चेतसि चिन्तासंज्वरः । येन ताप्यमानो गुणानुरक्तयापि राजलक्ष्म्या नारमत । दृष्टवंशवृद्धिषु न नाम स्वबान्धवेषु, धर्मारण्येष्वपि दृष्टिं ददौ । अपत्यपरिवारनिर्वृतेभ्यो न परं पौरेभ्यः, पशुभ्योऽपि स्पृहयांचकार ॥
 
तस्य च राज्ञः सकलभुवनाभिनन्दितोदया द्वितीयाशशिकलेव द्वितीया, नाभिचक्रादपि गम्भीरेण कुचमण्डलादप्युन्नतेन जघनस्थलादपि विशालेन भुजलतायुगलादपि सरलेन कपोललावण्यादपि स्वच्छेन महतामाहितप्रमोदा मानसेन, निधानेन गुणानां प्रधानेन सर्वालंकाराणाम् अतिदुरापेण इतरप्रमदाभिः सर्वदा हृदिस्थेन हारेणेवापरेण परं शुद्धिशालिना शीलेन अलंकृता, भाग्यसंपत्तिरिव सौभाग्यस्य, पुण्यपरिणतिरिव लावण्यस्य, संकल्पसिद्धि-
 
[commentary]
 
उत्प्रासः सावज्ञहसनम् । शासितपदं प्रकृते कथंचित्समर्थनीयम् । मुर्मुरः तुषानलः । वंशः कुलम्, वेणुश्च ।