Proofing

This page has not been fully proofread.

क. १५.]
 
चतुर्थोऽध्यायः ।
 
६७७
 
संन्यासः ज्ञानं प्रति प्रत्यासन्न उच्यते ; कामप्रवृत्त्यभावाश्च ;
कामप्रवृत्तेर्हि ज्ञानप्रतिकूलता सर्वशास्त्रेषु प्रसिद्धा । तस्मात् बि-
रक्तस्य मुमुक्षोः विनापि ज्ञानेन 'ब्रह्मचर्यादेव प्रव्रजेत् इत्यादि
उपपन्नम्। ननु सावकाशत्वात् अनधिकृतविषयमेतदित्युक्तम्,
यावज्जीवश्रुत्युपरोधात् - नैष दोषः, नितरां सावकाशत्वात्
यावज्जीवश्रुतीनाम् ; अविद्वत्कामिकर्तव्यतां हि अवोचाम सर्व-
कर्मणाम् ; न तु निरपेक्षमेव जीवननिमित्तमेव कर्तव्यं कर्म ;
प्रायेण हि पुरुषाः कामबहुलाः ; कामश्च अनेकविषयः अने-
ककर्मसाधनसाध्यश्च ;
अनेक फलसाधनानि च वैदिकानि
कर्माणि दाराभिसंबन्धपुरुषकर्तव्यानि पुनः पुनश्च अनुष्ठी-
यमानानि बहुफलानि कृष्यादिवत् वर्षशतसमाप्तीनि च
गार्हस्थ्ये वा अरपये वा; अत: तदपेक्षया यावज्जीव-
श्रुतय: ; 'कुर्वन्नेवेह कर्माणि ' इति च मन्त्रवर्णः ।
तस्मिंश्च पक्षे विश्वजित्सर्वमेधयोः कर्मपरित्यागः, यस्मिंश्च
- पक्षे यावज्जीवानुष्ठानम्, तदा श्मशानान्तत्वम् भस्मान्तता
च शरीरस्य । इतरवर्णापेक्षया वा यावज्जीवश्रुतिः; नह
क्षत्रियवैश्ययोः पारिव्राज्यप्रतिपत्तिरस्ति ; तथा ' मन्त्रैर्य-
स्योदितो विधि: ' ' ऐकाश्रम्यं त्वाचार्याः' इत्येवमादीनां
क्षत्त्रियवैश्यापेक्षत्वम् । तस्मात् पुरुषसामर्थ्यज्ञानवैराग्यका-
 
"