2026-05-06 06:30:42 by ambuda-bot
This page has not been fully proofread.
६७६
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. ५.
प्रदानादिकर्मकारकजात्यादिशून्याविक्रियब्रह्मात्मदृढप्रतिपत्ति-
मात्रेण वचनमन्तरेणापि उक्तन्यायतः । तथा च व्याख्यात-
मेतत्- 'येषां नोऽयमात्माऽयं लोक:' इति हेतुवचनेन, पूर्वे
विद्वांसः प्रजामकामयमाना व्युत्तिष्ठन्तीति — पारिव्राज्यम्
विदुषाम् आत्मलोकावबोधादेव । तथा च विविदिषोरपि
सिद्धं पारिव्राज्यम्, 'एतमेवात्मानं लोकमिच्छन्तः प्रव्रजन्ति '
इति वचनात्; कर्मणां च अविद्वद्विषयत्वमवोचाम ; अवि-
द्याविषये च उत्पत्त्यादिविकार संस्कारार्थानि कर्माणीत्यतः -
आत्मसंस्कारद्वारेण आत्मज्ञानसाधनत्वमपि कर्मणामवो.
चाम - यज्ञादिभिर्विविदिषन्तीति । अथ एवं सति अवि-
द्विषयाणाम् आश्रमकर्मणां बलाबलविचारणायाम्, आत्मज्ञा
नोत्पादनं प्रति यमप्रधानानाम् अमानित्वादीनाम् मानसानां
च ध्यानज्ञानवैराग्यादीनाम् संनिपत्योपकारकत्वम्; हिंसारा-
गद्वेषादिबाहुल्यात् बहुक्लिष्टकर्मविमिश्रिता इतरे - इति ;
अत: पारिव्राज्यं मुमुक्षूणां प्रशंसन्ति - " त्याग एव हि
सर्वेषामुक्तानामपि कर्मणाम् । वैराग्यं पुनरेतस्य मोक्षस्य
परमोऽवधिः ' ' किं ते धनेन किमु बन्धुभिस्ते किं ते दारे-
ब्राह्मण यो मरिष्यसि । आत्मानमन्विच्छ गुहां प्रविष्टं पि-
ताम्रहास्ते क गता: पिता च' । एवं सांख्ययोगशास्त्रेषु च
9