2026-05-06 06:30:42 by ambuda-bot
This page has not been fully proofread.
क. १५.]
चतुर्थोऽध्यायः ।
६७५
साधने यागे प्रवृत्तस्य कामप्रतिषेधविधेः कामे विहते का-
म्ययागानुष्ठानप्रवृत्ति: निरुध्यते ; न च एतावता काम्यवि-
धिर्निरुद्धो भवति । कामप्रतिषेधविधिना काम्यविधेः अन-
र्थकत्वज्ञानात् प्रवृत्त्यनुपपत्तेः निरुद्ध एव स्यादिति चेत् —
भवतु एवं कर्मविधिनिरोधोऽपि । यथा कामप्रतिषेधे काम्य-
विधेः, एवं प्रामाण्यानुपपत्तिरिति चेत् — अननुष्ठेयत्वे अनु-
ष्ठातुरभावात् अनुष्ठानविध्यानर्थक्यात् अप्रामाण्यमेव कर्म-
विधीनामिति चेत् — न, प्रागात्मज्ञानात् प्रवृत्त्युपपत्तेः ; स्वा-
भाविकस्य क्रियाकारकफलभेदविज्ञानस्य प्रागात्मज्ञानात् कर्म-
हेतुत्वमुपपद्यत एव यथा कामविषये दोषविज्ञानोत्पत्तेः
प्राक् काम्यकर्मप्रवृत्तिहेतुत्वं स्यादेव स्वर्गादीच्छायाः स्वा-
भाविक्या:, तद्वत् । तथा सति अनर्थार्थो वेद इति
चेत् — न, अर्थानर्थयोः अभिप्रायतन्त्रत्वात्; मोक्षमेकं
वर्जयित्वा अन्यस्याविद्याविषयत्वात् पुरुषाभिप्रायतन्त्र हि
अर्थानर्थी, मरणादिकाम्येष्टिदर्शनात् । तस्मात् यावदात्मज्ञा-
नविधेराभिमुख्यम्, तावदेव कर्मविधय: ; तस्मात् न आत्म-
ज्ञानसहभावित्वं कर्मणामित्यतः सिद्धम् आत्मज्ञानमेव अमृ-
तत्वसाधनम् ' एत्सवदरे खल्वमृतत्वम्' इति कर्मनिरपेक्ष-
त्वात् ज्ञानस्य । अतो विदुषस्तावत् पारिव्राज्यं सिद्धम्, सं-
.