Proofing

This page has not been fully proofread.

६७४
 
बृहदारण्यकोपनिषद्भाष्ये
 
',
 
[ ब्रा. ५.
 
र्मणां भेदबुद्धिविषय संप्रदान कारकसाध्यत्वम्; अन्यबुद्धि-
परिच्छेद्यां हि अन्यादिदेवतां संप्रदानकारकभूतामन्तरेण,
न हि तत्कर्म निर्वर्त्यते; यया हि संप्रदानकारकबुद्धधा
संप्रदानकारकं कर्मसाधनत्वेनोपदिश्यते सा इह विद्यया
निवर्त्यते-- 'अन्योऽसावन्योऽहमस्मीति न स वेद *
'देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद' 'मृत्योः स मृत्यु -
माप्नोति य इह नानेव पश्यति' 'एकधैवानुद्रष्टव्यं सर्वमा-
त्मानं पश्यति' इत्यादिश्रुतिभ्यः । न च देशकालनिमित्ता-
द्यपेक्षत्वम्, व्यवस्थितात्मवस्तुविषयत्वात् आत्मज्ञानस्य ।
क्रियायास्तु पुरुषतन्त्रत्वात् स्यात् देशकालनिमित्ताद्यपेक्ष-
त्वम् ; ज्ञानं तु वस्तुतन्त्रत्वात् न देशकालनिमित्तादि अपे-
क्षते ; यथा अग्नि: उष्ण:, आकाश: अमूर्त:- इति, तथा
आत्मविज्ञानमपि । ननु एवं सति प्रमाणभूतस्य कर्मविधेः
निरोधः स्यात् न च तुल्यप्रमाणयोः इतरेतरनिरोधो
युक्त:- न, स्वाभाविकभेदबुद्धिमात्र निरोधकत्वात् ; न०हि
विध्यन्तरनिरोधकम् आत्मज्ञानम्, स्वाभाविकभेदबुद्धिमात्रं
निरुणद्धि । तथापि हेत्वपहारात् कर्मानुपपत्तेः विधिनिरोध
एव स्यादिति चेत् —— न कामप्रतिषेधात् काम्यप्रवृत्तिनि-
रोधवत् अदोषात् ; यथा 'स्वर्गकामो यजेत' इति स्वर्ग-