Proofing

This page has not been fully proofread.

क. १५.]
 
चतुर्थोऽध्यायः ।
 
६७३
 
न्यविषयपरिकल्पनायां तु यावज्जीवविधानश्रुति: स्वविषया-
त्संकोचिता स्यात् क्रमप्रतिपत्तेस्तु विश्वजित्सर्वमेधविषय-
त्वात् न कश्विद्वाधः ॥
 
न, आत्मज्ञानस्य अमृतत्व हेतुत्वाभ्युपगमात् । यत्तावत्
" आत्मेत्येवोपासीत' इत्यारभ्य स एष नेति नेत्येतदन्तेन
ग्रन्थेन यदुपसंहृतम् आत्मज्ञानम्, तत् अमृतत्वसाधन-
मित्यभ्युपगतं भवता; तत्र एतावदेवांमृतत्वसाधनम् अ-
न्यनिरपेक्षमित्येतत् न मृष्यते । तत्र भवन्तं पृच्छामि,
किमर्थमात्मज्ञानं मर्षयति भवानिति । शृणु तत्र कारणम्-
यथा स्वर्गकामस्य स्वर्गप्राप्त्युपायमजानतः अग्निहोत्रादि स्व-
र्गप्राप्तिसाधनं ज्ञापयति, तथा इहाप्यमृतत्वप्रतिपित्सोः अमृ-
तत्व प्राप्त्युपायमजानत: ' यदेव भगवान्वेद तदेव मे ब्रूहि'
इत्येवमाकाङ्क्षितम् अमृतत्वसाधनम् 'एतावदरे' इत्येवमादौ
वेदेन ज्ञाप्यत इति । एवं तर्हि, यथा ज्ञापितमग्निहोला-
दि. स्वर्गसाधनमभ्युपगम्यते, तथा इहापि आत्मज्ञानम्-
यथा ज्ञाप्यते तथाभूतमेव अमृतत्वसाधनमात्मज्ञानमभ्यु-
पगन्तुं युक्तम् ; तुल्यप्रामाण्यादुभयत्र । यद्येवं किं
स्यात् ? सर्वकर्महेतूपमर्दकत्वादात्मज्ञानस्य विद्योद्भवे कर्म-
निवृत्तिः स्यात्; दाराग्निसंबद्धानां तावत् अग्निहोत्रादिक-