Proofing

This page has not been fully proofread.

६७२
 
"
 
बृहदारण्यकोपनिषद्भाष्ये
 
-
 
[ब्रा. ५.
 
श्रुत्यधिकाराभावः अकर्मिणो गम्यते । अग्न्युद्वासनापवा-
दाच, 'वीरहा वा एष देवानां योऽग्निमुद्वासयते ' इति ।
ननु व्युत्थानादिविधानात् वैकल्पिकं क्रियावसानत्वं वेदा-
र्थस्य -- न, अन्यार्थत्वात् व्युत्थानादिश्रुतीनाम्; 'याव-
ज्जीवमग्निहोत्रं जुहोति ' ' यावज्जीवं दर्शपूर्णमासाभ्यां यजेत '
इत्येवमादीनां श्रुतीनां जीवनमात्रनिमित्तत्वात् यदा न श-
क्यते अन्यार्थता कल्पयितुम्, तदा व्युत्थानादिवाक्यानां
कर्मानधिकृतविषयत्वं संभवात् ; ' कुर्वन्नेवेह कर्माणि जिजी-
विषेच्छतं समाः इति च मन्त्रवर्णात्, जरया वा ह्येवा-
स्मान्मुच्यते मृत्युना वा - इति च जरामृत्युभ्यामन्यत्र कर्म-
वियोगच्छिद्रासंभवात् कर्मिणां श्मशानान्तत्वं न वैकल्पि-
कम्; काणकुब्जादयोऽपि कर्मण्यनधिकृता अनुग्राह्या एव
श्रुत्येति व्युत्थानाद्याश्रमान्तरविधानं नानुपपन्नम् । पारिब्रा-
जाक्रमविधानस्य अनवकाशत्वमिति चेत्, न, विश्वजित्स -
र्वमेधयोः यावज्जीवविश्यपवादत्वात्; यावज्जीवाग्निहोत्रादिवि-
धेः विश्वजित्सर्वमेधयोरेव अपवाद:, तत्र च क्रमप्रतिपत्ति-
संभव :- 'ब्रह्मचर्य समाप्य गृही भवेद्दृहाद्वनी भूत्वा प्रत्र-
जेत्' इति । विरोधानुपपत्तेः; न हि एवंविषयत्वे पारि-
ब्राज्यक्रमविधानत्राक्यस्य, कश्चिद्विरोधः क्रमप्रतिपत्तेः ; अ-