2026-05-06 06:30:38 by ambuda-bot
This page has not been fully proofread.
क. १५.]
चतुर्थोऽध्यायः ।
६७१
'वेदानधीत्य ब्रह्मचर्येण पुत्रपौत्रानिच्छेत्पावनार्थं पितॄणाम् ।
अग्नीनाधाय विधिवचेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत्' ।
'प्राजापत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम् । आत्मन्यग्नी-
न्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्' इत्याद्या: । एवं व्युत्था-
नविकल्पक्रमयथेष्टाश्रमप्रतिपत्तिप्रतिपादकानि हि श्रुतिस्मृति-
वाक्यानि शतश उपलभ्यन्त इतरेतरविरुद्धानि । आचारश्च
तद्विदाम् । विप्रतिपत्तिश्च शास्त्रार्थप्रतिपत्तॄणां बहुविदामपि ।
अतो न शक्यते शास्त्रार्थो मन्दबुद्धिभिर्विवेकेन प्रतिपत्तुम् ।
परिनिष्ठितशास्त्रन्यायबुद्धिभिरेव हि एषां वाक्यानां विषय-
विभागः शक्यते अवधारयितुम् । तस्मात् एषां विषयविभा-
गज्ञापनाय यथाबुद्धिसामर्थ्यं विचारयिष्यामः ॥
-
यावज्जीवश्रुत्यादिवाक्यानामन्यार्थासंभवात् क्रियावसान
एवं वेदार्थ: ; ' तं यज्ञपात्रैर्दहन्ति' इत्यन्त्यकर्म श्रवणात् ;
जरामर्यश्रवणाच्च ; लिङ्गाश्च 'भस्मान्तं शरीरम्' इति ; न
हि पारिव्राज्यपक्षे भस्मान्तता शरीरस्य स्यात् । स्मृतिश्च-
' निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शा-
स्त्रेऽधिकारोऽस्मि ज्ञेयो नान्यस्य कस्यचित्' इति ;
मन्त्रकं हि यत्कर्म वेदेन इह विधीयते, तस्य श्मशानान्ततां
दर्शयति स्मृतिः ; अधिकाराभावप्रदर्शनाच्च - अत्यन्तमेव
S. B. U. II. 21
स-