2026-05-06 06:30:37 by ambuda-bot
This page has not been fully proofread.
६७०
-
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. ५.
मिति, तत् एतावदेवेति विज्ञेयं त्वया - इति ह एवं किल
अमृतत्वसाधनमात्मज्ञानं प्रियायै भार्यायै उक्त्वा याज्ञव-
ल्क्यः किं कृतवान् ? यत्पूर्वे प्रतिज्ञातम् ' प्रब्रजिष्यन्न-
स्मि' इति, तच्चकार, विजहार प्रव्रजितवानित्यर्थः । परि-
समाप्ता ब्रह्मविद्या संन्यासपर्यवसाना । एतावान् उपदेश:
एतत् वेदानुशासनम्, एषा परमनिष्ठा, एष पुरुषार्थकर्त-
व्यतान्त इति ॥
इदानीं विचार्यते. शास्त्रार्थविवेकप्रतिपत्तये । यत आकु-
लानि हि वाक्यानि दृश्यन्ते - 'यावज्जीवमग्निहोत्रं जुहु-
यात् ' ' यावज्जीवं दर्शपूर्णमासाभ्यां यजेत' ' कुर्वमेवेह क-
र्माणि जिजीविषेच्छतं समाः एतद्वै जराम सत्रं यद-
,
'
'
प्रिहोत्रम्' इत्यादीनि ऐकाश्रम्यज्ञापकानि; अन्यानि च
आश्रमान्तरप्रतिपादकानि वाक्यानि ' विदित्वा व्युत्थाय प्र-
व्रजन्ति' ' ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रत्र-
जेत्' 'यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्दृहाद्वा वनाद्वा'
इति, 'द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव
पुरस्तात्संन्यासश्च, तयोः संन्यास एवातिरेचयति' इति, 'न
कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः ' इत्यादीनि ।
'ब्रह्मचर्यवान्प्रव्रजति ' ' अविशीर्णब्रह्मचर्यो
तथा स्मृतयश्च-
यमिच्छेत्तमावसेत्' 'तस्याश्रमविकल्पमेके ब्रुवते'; तथा