2026-05-06 06:30:37 by ambuda-bot
This page has not been fully proofread.
"
क. १५.]
चतुर्थोऽध्यायः ।
६६९
०
रमरे केन विजानीयादित्युक्तानुशासना-'
सि मैत्रेय्येतावदरे खल्वमृतत्वमिति हो-
क्त्वा याज्ञवल्क्यो विजहार ॥ १५ ॥
इति पञ्चमं ब्राह्मणम् ॥
चतुर्ष्वपि प्रपाठकेषु एक आत्मा तुल्यो निर्धारितः परं
ब्रह्म ; उपाय विशेषस्तु तस्याधिगमे अन्यश्चान्यश्च ; उपेयस्तु स
एव आत्मा, य: चतुर्थे- ' अथात आदेशो नेति नेति' इति नि-
र्दिष्ट: ; स एव पञ्चमे प्राणपणोपन्यासेन शाकल्ययाज्ञवल्क्य -
संवादे निर्धारितः, पुन: पञ्चमसमाप्तौ, पुनर्जनकयाज्ञवल्क्य-
संवादे, पुनः इह उपनिषत्समाप्तौ । चतुर्णामपि प्रपाठकानाम्
एतदात्मनिष्ठता, नान्योऽन्तराले कश्चिदपि विवक्षितोऽर्थ:-
इत्येतत्प्रदर्शनाय अन्ते उपसंहारः - स एष नेति नेत्यादिः । य-
स्मात् प्रकारशतेनापि निरूप्यमाणे तत्त्वे, नेति नेत्यात्मैव नि-
ष्ठा, न अन्या उपलभ्यते तर्केण वा आगमेन वा; तस्मात्
एतदेवामृतत्वसाधनम्, यदेतत् नेति नेत्यात्मपरिज्ञानं सर्व-
संन्यासञ्च इत्येतमर्थमुपसंजिहीर्षन्नाह — एतावत् एतावन्मा-
त्रम् यदेतत् नेति नेत्यद्वैतात्मदर्शनम् ; इदं च अन्य सहका-
रिकरणनिरपेक्षमेव अरे मैत्रेयि अमृतत्वसाधनम् । यत्पृ-
ष्टवत्यसि — यदेव भगवान्वेद तदेव मे ब्रह्ममृतत्वसाधन-