Proofing

This page has not been fully proofread.

क. १४.]
 
चतुर्थोऽध्यायः ।
 
६६७.
 
न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच
 
याज्ञवल्क्यः ॥ १३ ॥
 
सर्वकार्य प्रलये विद्यानिमित्ते, सैन्धवधनवत् अनन्तरः
अबाह्यः कृत्स्नः प्रज्ञानघन एक आत्मा अवतिष्ठते; पूर्व तु
भूतमात्रासंसर्गविशेषात् लब्धविशेषविज्ञान: सन्; तस्मिन्
प्रविलापिते विद्यया विशेषविज्ञाने तन्निमित्ते च भूतसंसर्गे
न प्रेत्य संज्ञा अस्ति — इत्येवं याज्ञवल्क्येनोक्ता ॥
 
-
 
सा होवाच मैत्रेय्यत्रैव मां भगवान्मो-
हान्तमापीपिपन्न वा अहमिमं विजाना-
मीति स होवाच न वा अरेऽहं मोहं ब्र-
वीम्यविनाशी, वा अरेऽयमात्मानुच्छि-
तिधर्मा ॥ १४ ॥
 
साहोवाच - अत्रैव मा भगवान् एतस्मिन्नेव वस्तुनि
प्रज्ञानघन एव, न प्रेत्य संज्ञास्तीति, मोहान्तं मोहमध्यम्,
आपीपिपत् आपीपदत् अवगमितवानसि संमोहितवान-
सीत्यर्थः ; अतः न वा अहम् इममात्मानम् उक्तलक्षणं वि-
जानामि विवेकत इति । स होवाच - नाहं मोहं ब्रवीमि,
 
:;
 
अविनाशी वा अरेऽयमात्मा यतः ; विननं शीलमस्येति वि-
नाशी, न विनाशी अविनाशी, विनाशशब्देन विक्रिया, अ-
 
5