Proofing

This page has not been fully proofread.

६६६
 
षाँ
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ५.
 
नमेव सर्वेषा स्पर्शानां त्वगेकायनमे-
व‍ सर्वेषां गन्धानां नासिके एकायन-
मेव‍ सर्वेषां‍ रसानां जिह्वैकायनमेव
सर्वेषां रूपाणां चक्षुरेकायनमेव सर्वे-
षाँ शब्दाना श्रोत्रमेकायनमेव सर्वे-
संकल्पानां मन एकायनमेवर स-
सां विद्याना हृदयमेकायनमेव स-
ari कर्मणा हस्तावेकायनमेव सर्वे-
षामानन्दानामुपस्थ एकायनमेवर सर्वे-
षां विसर्गाणां पायुरेकायनमेव सर्वेषा-
मध्वनां पादावेकायनमेव‍ सर्वेषां वेदा-
नां वागेकायनम् ॥ १२ ॥
 
चतुर्थे शब्दनिश्वासेनैव लोकाद्यर्थनिश्वासः सामर्थ्यात्
उक्तो भवतीति पृथक् नोक्तः । इह तु सर्वशास्त्रार्थोपसंहार
इति कृत्वा अर्थप्राप्तोऽप्यर्थः स्पष्टीकर्तव्य इति पृथगुच्यते ॥
स यथा सैन्धवधनोऽनन्तरोऽबाह्यः
कृत्स्नो रसघन एवैवं वा अरेऽयमात्मान-
न्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो
भूतेभ्यः समुत्थाय तान्येवानुविनश्यति