2026-05-06 06:30:34 by ambuda-bot
This page has not been fully proofread.
क. १२.]
चतुर्थोऽध्यायः ।
६६५
स यथा शङ्खस्य ध्मायमानस्य न
बाह्याञ्छब्दाञ्छक्नुयाद्ब्रहणाय शङ्खस्य
तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥
स यथा वीणायै वाद्यमानायै न बा-
ह्याञ्छब्दाञ्छ्क्नुयाग्रहणाय वीणायै तु
ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥
तम् अयथार्थदर्शिनं परादात् पराकुर्यात्, कैवल्यासंब-
न्धिनं कुर्यात् - अयमनात्मस्वरूपेण मां पश्यतीत्यपराधा-
दिति भावः ॥
स यथार्द्रैघाग्नेरभ्या हितस्य पृथग्धूमा
विनिश्चरन्त्येवं वा अरेऽस्य महतो भू-
तस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः
सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं
विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्या-
ख्यानानि व्याख्यानानीष्ट हुतमाशितं
पायितमयं च लोकः परश्च लोकः सर्वा-
णि च भूतान्यस्यैवैतानि सर्वाणि निश्व-
सितानि ॥ ११ ॥
स यथा सर्वासामपाँ समुद्र एकाय-
चतुर्थोऽध्यायः ।
६६५
स यथा शङ्खस्य ध्मायमानस्य न
बाह्याञ्छब्दाञ्छक्नुयाद्ब्रहणाय शङ्खस्य
तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥
स यथा वीणायै वाद्यमानायै न बा-
ह्याञ्छब्दाञ्छ्क्नुयाग्रहणाय वीणायै तु
ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥
तम् अयथार्थदर्शिनं परादात् पराकुर्यात्, कैवल्यासंब-
न्धिनं कुर्यात् - अयमनात्मस्वरूपेण मां पश्यतीत्यपराधा-
दिति भावः ॥
स यथार्द्रैघाग्नेरभ्या हितस्य पृथग्धूमा
विनिश्चरन्त्येवं वा अरेऽस्य महतो भू-
तस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः
सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं
विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्या-
ख्यानानि व्याख्यानानीष्ट हुतमाशितं
पायितमयं च लोकः परश्च लोकः सर्वा-
णि च भूतान्यस्यैवैतानि सर्वाणि निश्व-
सितानि ॥ ११ ॥
स यथा सर्वासामपाँ समुद्र एकाय-