Proofing

This page has not been fully proofread.

क्र. ६.]
 
चतुर्थोऽध्यायः ।
 
६६३
 
वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भव-
त्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियंभ-
वत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया
भवन्त्यात्मनस्तु कामाय लोकाः प्रिया
भवन्ति । न वा अरे देवानां कामाय देवाः
प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रि-
या भवन्ति । न वा अरे वेदानां कामाय
वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वे-
दाः प्रिया भवन्ति । न वा अरे भूतानां
कामाय भूतानि प्रियाणि भवन्त्यात्मन-
स्तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भ-
वत्यात्मनस्तु कामाय सर्व प्रियं भवति ।
आत्मा वा अरे दृष्टव्यः श्रोतव्यो मन्त-
व्यो निदिध्यासितव्यो मैत्रेय्यात्मनि ख-
ल्वरे दृष्टे श्रुते मते विज्ञात इद सर्व वि-
दितम् ॥ ६ ॥