Proofing

This page has not been fully proofread.

६६२
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ ब्रा. ५.
 
नो भवती सती प्रियमवृधद्धन्त तर्हि भ
वत्येतद्व्याख्यास्यामि ते व्याचक्षाणस्य तु
मे निदिध्यासस्वेति ॥ ५ ॥
 
स ह उवाच -
 
प्रियैव पूर्व खलु नः अस्मभ्यम्
 
भवती, भवन्ती सती, प्रियमेव अवृधत् वर्धितवती निर्धा
रितवती असि ; अत: तुष्टोऽहम् ; हन्त इच्छसि चेत् अमृ-
तत्वसाधनं ज्ञातुम्, हे भवति, ते तुभ्यं तत् अमृतत्वसाधनं
व्याख्यास्यामि ॥
 
"
 
स होवाच न वा अरे पत्युः कामाय
पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः
प्रियो भवति । न वा अरे जायायै कामा-
य जाया प्रिया भवत्यात्मनस्तु कामाय
जाया प्रिया भवति । न वा अरे पुत्राणां
कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु का-
माय पुत्राः प्रिया भवन्ति । न वा अरे वि-
तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु
कामाय वित्तं प्रियं भवति । न वा अरे
पशूनां कामाय पशवः प्रिया भवन्त्यात्म-
नस्तु कामाय पशवः प्रिया भवन्ति । न