Proofing

This page has not been fully proofread.

क. ५.]
 
चतुर्थोऽध्यायः ।
 
६६१
 
हे मैत्रेयीति ज्येष्ठां भार्यामामन्त्रयामास आमन्त्र्य चो-
वाच ह - प्रव्रजिष्यन् पारिव्राज्यं करिष्यन् वै अरे मैत्रेयि
अस्मात् स्थानात् गार्हस्थ्यात् अहम् अस्मि भवामि । मैत्रेयि
अनुजानीहि माम्; हन्त इच्छसि यदि ते अनया कात्या-
यन्या अन्तम् करवाणि - इत्यादि व्याख्यातम् ॥
 
सा होवाच मैत्रेयी यन्नु म इयं भगोः
सर्वा पृथिवी वित्तेन पूर्णा स्यात्यां न्वहं
तेनामृताहो३ नेति नेति होवाच याज्ञव-
ल्क्यो यथैवोपकरणवतां जीवितं तथैव
ते जीवित‍ स्यादमृतत्वस्य तु नाशास्ति
वित्तेनेति ॥ ३ ॥
 
सा होवाच मैत्रेयी येनाहं नामृता
स्यां किमहं तेन कुर्या यदेव भगवान्वेद
तदेव मे ब्रूहीति ॥ ४॥
 
सा एवमुक्ता उवाच मैत्रेयी — सर्वेयं पृथिवी वित्तेन
पूर्णा स्यात् नु किम् स्याम्, किमहं वित्तसाध्येन कर्मणा
अमृता, आहो न स्यामिति । नेति होवाच याज्ञवल्क्य
इत्यादि समानमन्यत् ॥
 
स होवाच याज्ञवल्क्यः प्रिया वै खलु