Proofing

This page has not been fully proofread.

६६०
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ५.
 
अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूव-
तुमैत्रेयी च कात्यायनी च तयोर्ह मैत्रेयी
ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि का-
त्यायन्यथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपा-
करिष्यन् ॥ १ ॥
 
"
 
अथेति हेतूपदेशानन्तर्य प्रदर्शनार्थः । हेतुप्रधानानि हि
वाक्यानि अतीतानि । तदनन्तरम् आगमप्रधानेन प्रतिज्ञा-
तोऽर्थः निगम्यते मैत्रेयीब्राह्मणेन । ह-शब्दः वृत्तावद्योतकः ।
याज्ञवल्क्यस्य ऋषेः किल द्वे भार्ये पत्न्यौ बभूवतुः आस्ताम् -
मैत्रेयी च नामत एका, अपरा कात्यायनी नामतः । तयो-
भयो: मैत्रेयी ह किल ब्रह्मवादिनी ब्रह्मवदनशीला बभूव
आसीत् ; स्त्रीप्रज्ञा- स्त्रियां या उचिता सा स्त्रीप्रज्ञा - सैव
यस्या: प्रज्ञा गृहप्रयोजनान्वेषणालक्षणा, सा स्त्रीप्रज्ञैव तर्हि
तस्मिन्काले आसीत् कात्यायनी । अथ एवं सति ह किल
याज्ञवल्क्यः अन्यत् पूर्वस्माद्गार्हस्थ्यलक्षणाद्वृत्तात् पारित्रा-
ज्यलक्षणं वृत्तम् उपाकरिष्यन् उपाचिकीर्षुः सन् ॥
 
मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्र-
जिष्यन्वा अरेऽहमस्मात्स्थानादस्मि हन्त
तेऽनया कात्यायन्यान्तं करवाणीति ॥ २ ॥