2026-05-06 06:30:31 by ambuda-bot
This page has not been fully proofread.
पञ्चमं ब्राह्मणम् ॥
ง
आगमप्रधानेन मधुकाण्डेन ब्रह्मतत्त्वं निर्धारितम् । पुन:
तस्यैव उपपत्तिप्रधानेन याज्ञवल्कीयेन काण्डेन पक्षप्रतिपक्ष-
परिग्रहं कृत्वा विगृह्यवादेन विचारितम् । शिष्याचार्य संबन्धेन
च षष्ठे प्रश्नप्रतिवचनन्यायेन सविस्तरं विचार्योपसंहृतम् ।
अथेदानों निगमनस्थानीयं मैत्रेयीब्राह्मणमारभ्यते; अयं च
न्यायः वाक्य कोविदैः परिगृहीत: - 'हेत्वपदेशात्प्रतिज्ञायाः
पुनर्वचनं निगमनम् ' इति । अथवा आगमप्रधानेन मधुका-
ण्डेन यत् अमृतत्वसाधनं ससंन्यासमात्मज्ञानमभिहितम्,
तदेव तर्केणापि अमृतत्वसाधनं ससंन्यासमात्मज्ञानमधि-
गम्यते; तर्कप्रधानं हि याज्ञवल्कीयं काण्डम् ; तस्मात् शा-
तर्काभ्यां निश्चितमेतत् - यदेतत् आत्मज्ञानं ससंन्यासम्
अमृतत्वसाधनमिति ; तस्मात् शास्त्रश्रद्धावद्भिः अमृतत्वप्रति-
पित्सुभिः एतत् प्रतिपत्तव्यमिति; आगमोपपत्तिभ्यां हि नि-
श्चितोऽर्थः श्रद्धेयो भवति अव्यभिचारादिति । अक्षराणां तु
चतुर्थे यथा व्याख्यातोऽर्थः तथा प्रतिपत्तव्योऽत्रापि; या-
न्यक्षराणि अव्याख्यातानि तानि व्याख्यास्यामः ॥
"