2026-05-06 06:30:31 by ambuda-bot
This page has not been fully proofread.
६५८
बृहदारण्यकोपनिद्भाष्ये
[ब्रा. ४.
भावविकारप्रतिषेधेन च अविद्यायाः प्रतिषेधः सिद्धो वेदित-
व्यः । अभय आत्मा एवंगुणविशिष्ट: किमसौ ? ब्रह्म परिवृढं
निरतिशयं महदित्यर्थः । अभयं वै ब्रह्म ; प्रसिद्धमेतत् लोके
--
अभयं ब्रह्मेति । तस्माद्युक्तम् एवंगुणविशिष्ट आत्मा ब्र
ह्मेति । य एवं यथोक्तमात्मानमभयं ब्रह्म वेद, सः अभयं हि
वै ब्रह्म भवति । एष सर्वस्या उपनिषदः संक्षिप्तोऽर्थ उक्त: ।
एतस्यैवार्थख सम्यक्प्रबोधाय उत्पत्तिस्थितिप्रलयादिकल्पना
क्रियाकारकफलाध्यारोपणा च आत्मनि कृता ; तदपोहेन च
नेति नेतीत्यध्यारोपितविशेषापनयद्वारेण पुनः तत्त्वमावेदि -
तम् । यथा एकप्रभृत्यापरार्ध संख्यास्वरूपपरिज्ञानाय रेखा-
ध्यारोपणं कृत्वा - एकेयं रेखा, दशेयम्, शतेयम्, सहस्रे -
यम् - इति प्राहयति, अवगमयति संख्यास्वरूपं केवलम् न
तु संख्याया रेखात्मत्वमेव ; यथा च अकारादीन्यक्षराणि वि-
जिग्राहयिषुः पत्रमषी रेखादिसंयोगोपायमास्थाय वर्णानां सत-
स्वमावेदयति, न पत्रमध्याद्यात्मतामक्षराणां प्राहयति तथा
चेह उत्पस्याद्यनेकोपायमास्थाय एकं ब्रह्मतत्त्वमावेदितम्,
पुनः वत्कल्पितोपायजनितविशेष परिशोधनार्थे नेति नेतीति
तत्त्वोपसंहारः कृतः । तदुपसंहृतं पुनः परिशुद्धं केवलमेव
सफलं ज्ञानम् अन्तेऽस्यां कण्डिकायामिति ॥
इति चतुर्थाध्यायस्य चतुर्थे ब्राह्मणम् ॥
-