2026-05-06 06:30:30 by ambuda-bot
This page has not been fully proofread.
६५६
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. ४.
एष ब्रह्मलोक : --- ब्रह्मैव लोको ब्रह्मलोक: मुख्यो निरुपच-
रितः सर्वात्मभावलक्षण, हे सम्राट् । एनं ब्रह्मलोकं परि-
प्रापितोऽसि अभयं नेति नेत्यादिलक्षणम् -- इति होवाच
याज्ञवल्क्यः । एवं ब्रह्मभूतो जनक: याज्ञवल्क्येन ब्रह्मभा-
वमापादितः प्रत्याह-- सोऽहं त्वया ब्रह्मभावमापादितः
सन् भगवते तुभ्यम् विदेहान् देशान् मम राज्यं समस्तं
ददामि, मां च सह विदेहैः दास्याय दासकर्मणे - ददामीति
च शब्दात्संबध्यते । परिसमापिता ब्रह्मविद्या सह संन्यासेन
साङ्गा सेतिकर्तव्यताका ; परिसमाप्तः परमपुरुषार्थ : ; एता-
वत् पुरुषेण कर्तव्यम् एषा निष्ठा, एषा परा गतिः, एत-
निःश्रेयसम् एतत्प्राप्य कृतकृत्यो ब्राह्मणो भवति एतत्
सर्ववेदानुशासनमिति ॥
स
'
6
'
स वा एष महानज आत्मान्नादो वसु-
दानो विन्दते वसु य एवं वेद ॥ २४ ॥
योऽयं जनकयाज्ञवल्क्याख्यायिकायां व्याख्यात आत्मा
वै
एषः महान् अज: आत्मा अन्नादः सर्वभूतस्थः सर्वा -
नानामत्ता, वसुदान:- वसु धनं सर्वप्राणिकर्मफलम् - तस्य
दाता, प्राणिनां यथाकर्म फलेन योजयितेत्यर्थः ; तमेतम् अ-
जमन्नादं वसुदानमात्मानम् अन्नादवसुदानगुणाभ्यां युक्तम्
यो वेद, सः सर्वभूतेष्वात्मभूतः अन्नमन्ति, विन्दते च वसु