Proofing

This page has not been fully proofread.

क. २३.]
 
चतुर्थोऽध्यायः ।
 
'
 
६५५
 
एष ब्राह्मणस्य महिमा नेति नेत्यादिलक्षणः, तस्मात् एवं-
वित् शान्त: ब्राह्येन्द्रियव्यापारत उपशान्तः, तथा दान्त:
अन्तःकरणतृष्णातो निवृत्त:, उपरतः सर्वैषणा विनिर्मुक्तः
संन्यासी, तितिक्षुः द्वंद्वसहिष्णुः समाहितः इन्द्रियान्त: क-
रणचलनरूपाद्व्यावृत्त्या ऐकाग्र्यरूपेण समाहितो भूत्वा ;
तदुक्तं पुरस्तात् 'बाल्यं च पाण्डित्यं च निर्विद्य' इति ; आ-
मन्येव स्वे कार्यकरणसंघाते आत्मानं प्रत्यक्चेतयितारं पश्य-
ति । तत्र किं तावन्मात्रं परिच्छिन्नम् ? नेत्युच्यते – सर्वे सम-
 
स्तम्
 
-
 
.1
 
दे-
 
आत्मानमेव पश्यति, नान्यत् आत्मव्यतिरिक्तं वालाग्र-
मात्रमध्यस्तीत्येवं पश्यति ; मननात् मुनिर्भवति जाग्रत्स्वप्नसुषु-
प्नाख्यं स्थानत्रयं हित्वा । एवं पश्यन्तं ब्राह्मणं नैनं पाप्मा पु-
ण्यपापलक्षणः तरति, र्न प्राप्नोति; अयं तु ब्रह्मवित् सर्वे पा-
मानं तरति आत्मभावेनैव व्याप्नोति अतिक्रामति । नैनं पा-
प्मा कृताकृतलक्षणः तपति इष्टफलप्रत्यवायोत्पादनाभ्याम् ;
सर्व पाप्मानम् अयं तपति ब्रह्मवित् सर्वात्मदर्शनवह्निना भस्मी-
करोति । स एष एवंवित् विपापः विगतधर्माधर्मः, विरजः
विगतरज:, रजः कामः, विसतकामः, अविचिकित्स: छिन्न-
संशयः, अहमस्मि सर्वात्मा परं ब्रह्मेति निश्चितमति: ब्राह्मणो
भवति - अयं तु एवंभूतः एतस्यामवस्थायां मुख्यो ब्राह्म-
प्रागेतस्मात् ब्रह्मस्वरूपावस्थानात् गौणमस्य ब्राह्मण्यम् ।
 
OT:,
 
S. B. U. II. 20