Proofing

This page has not been fully proofread.

६५४
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ४.
 
सर्व पाप्मानं तरति नैनं पाप्मा तपति
सर्व पाप्मानं तपति विपापो विरजो-
विचिकित्सो ब्राह्मणो भवत्येष ब्रह्मलो-
कः सम्राडेनं प्रापितोऽसीति होवाच या-
ज्ञवल्क्यः सोऽहं भगवते विदेहान्ददामि
मां चापि सह दास्यायेति ॥ २३ ॥
 
तदेतद्वस्तु ब्राह्मणेनोक्तम् ऋचा मन्त्रेण अभ्युक्तम् प्रका-
शितम् । एषः नेति नेत्यादिलक्षणः नित्यो महिमा ; अन्ये तु
महिमानः कर्मकृता इत्यनित्या: ; अयं तु तद्विलक्षणो महिमा
स्वाभाविकत्वान्नित्यः ब्रह्मविदः ब्राह्मणस्य त्यक्तसर्वेषणस्य ।
कुतोऽस्य नित्यत्वमिति हेतुमाह- कर्मणा न वर्धते शुभलक्ष-
णेन कृतेन वृद्धिलक्षणां विक्रियां न प्राप्नोति; अशुभेन कर्मणा
नो कनीयान् नाप्यपक्षयलक्षणां विक्रियां प्राप्नोति ; उपचयाप-
चहेतुभूता एव हि सर्वा विक्रिया इति एताभ्यां प्रतिषिध्य-
न्ते ; अत: अविक्रियात्वात् नित्य एष महिमा । तस्मात् तस्यैव
महिम्नः, स्यात् भवेत्, पदवित् - पदस्य वेत्ता, पद्यते गम्यते
ज्ञायत इति महिम्न: स्वरूपमेव पदम् तस्य पदस्य वेदिता ।
किं तत्पदवेदनेन स्यादित्युच्यते-- तं विदित्वा महिमानम्,
न लिप्यते न संबध्यते कर्मणा पापकेन धर्माधर्मलक्षणेन,
उभयमपि पापकमेव विदुषः । यस्मादेवम् अकर्म संबन्धी
 
"