2026-05-06 06:30:29 by ambuda-bot
This page has not been fully proofread.
क. २३.]
चतुर्थोऽध्यायः ।
६५३
तरति ; तथा अतः कल्याणं फलविषयकामा
मान्निमित्तात् यज्ञ-
दानादिलक्षणं पुण्यं शोभनं कर्म कृतवानस्मि, अतोऽहम्
अस्य फलं सुखमुपभोक्ष्ये देहान्तरे - इत्येषोऽपि हर्ष : तं न
तरति । उभे उ ह एव एष: ब्रह्मवित् एते कर्मणी तरति
पुण्यपापलक्षणे । एवं ब्रह्मविदः संन्यासिन उभे अपि क-
र्मणी श्रीयेते - पूर्वजन्मनि कृते ये ते, इह जन्मनि कृते
ये ते च; अपूर्वे च न आरभ्येते । किं च नैनं कृताकृते,
कृतं नित्यानुष्ठानम्, अकृतं तस्यैव अक्रिया, ते अपि कृता-
कृते एनं न तपत: ; अनात्मज्ञं हि, कृतं फलदानेन, अकृतं
प्रत्यवायोत्पादनेन, तपत:; अयं तु ब्रह्मवित् आत्मविद्याद्मिना
सर्वाणि कर्माणि भस्मीकरोति, 'यथैधांसि समिद्धोऽग्निः '
इत्यादिस्मृतेः; शरीरारम्भकयोस्तु उपभोगेनैव क्षयः । अतो
ब्रह्मवित् अकर्मसंबन्धी ॥
तदेतदृचाभ्युक्तम् । एष नित्यो महि-
मा ब्राह्मणस्य न वर्धते कर्मणा नोक-
नीयान् । तस्यैव स्यात्पदवित्तं विदित्वा
न लिप्यते कर्मणा, पापकेनेति । तस्मादे-
वंविच्छान्तो दान्त उपरतस्तितिक्षुः स-
माहितो भूत्वात्मन्येवात्मानं पश्यति स-
र्वमात्मानं पश्यति नैनं पाप्मा तरति