Proofing

This page has not been fully proofread.

६५२
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ४.
 
स्वयं ज्योतिः एक एवाद्वयः अपूर्वोऽनपरोऽनन्तरोऽबाह्यः --
इत्येतत् आगमतस्तर्कतश्च स्थापितम्, विशेषतश्चेह जनकया-
ज्ञवल्क्यसंवादे अस्मिन् तस्मात् एवंलक्षणे आत्मनि विदिते
आत्मत्वेन नैव कर्मारम्भ उपपद्यते । तस्मादात्मा निर्विशेषः
न हि चक्षुष्मान् पथि प्रवृत्तः अहनि कूपे कण्टके वा पतति ;
- कृत्स्नस्य च कर्मफलस्य विद्याफलेऽन्तर्भावात् ; न च अय-
प्राप्ये वस्तुनि विद्वान् यत्नमातिष्ठति ; ' अत्के चेन्मधु वि.
देत किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संप्राप्तौ को विद्वा-
न्यन्नमाचरेत् ' ' सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते -'
इति गीतासु । इहापि च एतस्यैव परमानन्दस्य ब्रह्मवि.
स्प्राप्यस्य अन्यानि भूतानि मात्रामुपजीवन्तीत्युक्तम् । अतो
ब्रह्मविदां न कर्मारम्भः ॥
 
C
 
यस्मात् सर्वेषणाविनिवृत्तः स एष नेति नेत्यात्मानमा-
- त्मत्वेनोपगम्य तद्रूपेणैव वर्तते, तस्मात् एतम् एवंविदं नेति
नेत्यात्मभूतम्, उ ह एव एते वक्ष्यमाणे न तरतः न प्राप्नु
तः - इति युक्तमेवेति वाक्यशेषः । के ते इत्युच्यते-अतः
अस्मान्निमित्तात् शरीरधारणादिहेतोः, पापम् अपुण्यं कर्म
अकरवं कृतवानस्मि - कष्टं खलु मम वृत्तम्, अनेन पापेन
कर्मणा अहं नरकं प्रतिपत्स्ये- इति योऽयं पश्चात् पापं
कर्म कृतवत: -- परितापः स एनं नेति नेत्यात्मभूतं न