Proofing

This page has not been fully proofread.

क. २२.]
 
चतुर्थोऽध्यायः ।
 
६५१
 
वादापेक्षम् — सकृच्छ्रतं स्यात् । तस्मात् भ्रान्तिरेव एषा-
लोक स्तुतिपरमिति । न च अनुष्ठेयेन पारिव्राज्येन स्तुतिरु-
पपद्यते यदि पारिव्राज्यम् अनुष्ठेयमपि सत् अन्यस्तुत्यर्थ
स्यात्, दर्शपूर्णमासादीनामपि अनुष्ठेयानां स्तुत्यर्थता स्यात् ।
न च अन्यत्र कर्तव्यता एतस्माद्विषयात् निर्ज्ञाता, यत इह
स्तुत्यर्थो भवेत् । यदि पुनः क्वचिद्विधिः परिकल्प्येत पारि-
ब्राज्यस्य, स इहैव मुख्यः नान्यत्र संभवति । यदपि अन-
धिकृतविषये पारिव्राज्यं परिकल्प्यते, तत्र वृक्षाद्यारोहणा-
द्यपि पारिव्राज्यवत् कल्प्येत, कर्तव्यत्वेन अनिर्ज्ञातत्वावि-
शेषात् । तस्मात् स्तुतित्वगन्धोऽपि अत्र न शक्यः कल्पयितुम् ॥
 
यदि अयमात्मा लोक इष्यते, किमर्थं तत्प्राप्तिसाधनत्वेन
कर्माण्येव न आरभेरन्, किं पारिव्राज्येन- इत्यत्रोच्यते-
अस्य आत्मलोकस्य कर्मभिरसंबन्धात्; यमात्मानमिच्छन्तः
प्रव्रजेयुः, स आत्मा साधनत्वेन फलत्वेन च उत्पाद्यत्वादि-
प्रकाराणामन्यतमत्वेनापि कर्मभिः न संबध्यते; तस्मात्-
स एष नेति नेत्यात्मागृह्यो, न हि गृह्यते- इत्यादिलक्षण: ;
यस्मात् एवंलक्षण आत्मा कर्मफलसाधनासंबन्धी सर्वसं-
सारधर्मविलक्षण: अशनायाद्यतीत: अस्थूलादिधर्मवान् अ-
जोऽजरोऽमरोऽमृतोऽभयः सैन्धवघनवद्विज्ञानैकरसस्वभाव: