2026-05-06 06:30:27 by ambuda-bot
This page has not been fully proofread.
६५०
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. ४.
मिति कृत्वा किं कृतवन्त इत्युच्यते-- ते ह स्म किल
पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भि-
श्राचर्यं चरन्तीत्यादि व्याख्यातम् ॥
तस्मात् आत्मानं लोकमिच्छन्तः प्रव्रजन्ति प्रव्रजेयु:-
इत्येष विधिः अर्थवादेन संगच्छते ; न हि सार्थवादस्य
अस्य लोक स्तुत्याभिमुख्यम् उपपद्यते ; प्रब्रजन्तीत्यस्यार्थवा-
दरूपो हि 'एतद्ध स्म' इत्यादिरुत्तरो ग्रन्थ : ; अर्थवादश्चेत्,
नार्थवादान्तरमपेक्षेत; अपेक्षते तु 'एतद्ध स्म' इत्याद्यर्थवाद
' प्रव्रजन्ति' इत्येतत्। यस्मात् पूर्वे विद्वांसः प्रजादिकर्मभ्यो
निवृत्ताः प्रव्रजितवन्त एव, तस्मात् अधुनातना अपि प्रत्र-
जन्ति प्रव्रजेयुः -- इत्येवं संबध्यमानं न लोकस्तुत्यभिमुखं
भवितुमर्हति ; विज्ञानसमानकर्तृकत्वोपदेशादित्यादिना अवो-
चाम । वेदानुवचनादिसहपाठाश्च; यथा आत्मवेदनसाधनत्वे-
न विहितानां वेदानुवचनादीनां यथार्थत्वमेव, नार्थवादत्वम्,
तैरेव सह पठितस्य पारिव्राज्यस्य आत्मलोकप्राप्तिसाधन-
त्वे अर्थवादत्वमयुक्तम् । फलविभागोपदेशाश्च ; ' एतमेवा-
त्मानं लोकं विदित्वा' इति अन्यस्मात् बाह्यात् लोकात् आ-
त्मानं फलान्तरत्वेन ं प्रविभजति, यथा- पुत्रेणैवायं लोको
जय्यः नान्येन कर्मणा, कर्मणा पितृलोक:- इति । न च
प्रव्रजन्तीत्येतत् प्राप्तवत् लोकस्तुतिपरम्, प्रधानवच्च अर्थ -
तथा