2026-05-06 06:30:27 by ambuda-bot
This page has not been fully proofread.
क. २२.]
आप्यः
चतुर्थोऽध्यायः ।
६४९
विकार्यः संस्कार्यो वा । यदपि आत्मयाजिनः सं-
स्कारार्थे कर्मेति, तदपि कार्यकरणात्मदर्शनविषयमेव, इदं मे
अनेन अङ्गं संस्क्रियते इति अङ्गाङ्गित्वादिश्रवणात्; न हि
विज्ञानघनैकरसनैरन्तर्यदर्शिनः अङ्गाङ्गिसंस्कारोपधानदर्शनं
संभवति । तस्मात् न किंचित् प्रजादिसाधनैः करिष्यामः ;
अविदुषां हि तत् प्रजादिसाधनैः कर्तव्यं फलम् ; न हि मृग-
तृष्णिकायामुदकपानाय तदुदकदर्शी प्रवृत्त इति, तत्र ऊ-
परमात्रमुदकाभावं पश्यतोऽपि प्रवृत्तिर्युक्ता एवम् अ-
स्माकमपि परमार्थात्मलोकदर्शिनां प्रजादिसाधनसाध्ये मृगतृ-
ष्णिकादिसमे अविद्वद्दर्शनविषये न प्रवृत्तिर्युक्तेत्यभिप्रायः ।
तदेतदुच्यते-- येषाम् अस्माकं परमार्थदर्शिनां नः, अय-
मात्मा अशनायादिविनिर्मुक्तः साध्वसाधुभ्यामविकार्यः अयं
लोकः फलमभिप्रेतम् ; न चास्य आत्मनः साध्य साधनादि-
सर्वसंसारधर्मविनिर्मुक्तस्य साधनं किंचित् एषितव्यम्; सा-
ध्यस्य हि साधनान्वेषणा क्रियते ; असाध्यस्य साधनान्वे -
षणायां हि, जलबुद्धया स्थल इव तरणं कृतं स्यात्, खे.
वा शाकुन पदान्वेषणम् । तस्मात् एतमात्मानं विदित्वा
प्रव्रजेयुरेव ब्राह्मणाः, न कर्म आरभेरन्नित्यर्थः यस्मात्
पूर्वे ब्राह्मणा एवं विद्वांस: प्रजामकामयमाना: । ते
एवं साध्यसाधना संव्यवहारं निन्दन्तः अविद्वद्विषयोऽय
"