2026-05-06 06:30:26 by ambuda-bot
This page has not been fully proofread.
६४८
,
बृहदारण्यकोपनिषद्भाष्ये
[ ब्रा. ४.
सर्वैषणानिवृत्ति: पारिव्राज्यं ब्रह्मविदो विधीयत एव ।
कुतः पुनः ते आत्मलोकार्थिनः प्रव्रजन्त्येवेत्युच्यते ; तत्र अ
र्थवादवाक्यरूपेण हेतुं दर्शयति- एतद्ध स्म वै तत् । तदे-
तत् पारिव्राज्ये कारणमुच्यते-- ह स्म वै किल पूर्वे अति-
क्रान्तकालीना विद्वांसः आत्मज्ञाः, प्रजां कर्म अपरब्रह्म-
विद्यां च ; प्रजोपलक्षितं हि त्रयमेतत् बाह्यलोकत्रयसाधनं
निर्दिश्यते ' प्रजाम्' इति । प्रजां किम् ? न कामयन्ते, पुत्रा-
दिलोकत्रयसाधनं न अनुतिष्ठन्तीत्यर्थः । ननु अपरब्रह्मद-
र्शनमनुतिष्ठन्त्येव तद्बलाद्धि व्युत्थानम् - न अपवादात्;
'ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद' ' सर्व तं परादा-
त्—' इति अपरब्रह्मदर्शनमपि अपवदत्येव, अपरब्रह्मणोऽपि
सर्वमध्यान्तर्भावात् 'यत्र नान्यत्पश्यति' इति च पूर्वा-
परबाह्यान्तरदर्शनप्रतिषेधाश्च अपूर्वमनपरमनन्तरमबाह्यमिति;
' तत्केन कं पश्येद्विजानीयात् ' इति च; तस्मात् न आत्मदर्श
नव्यतिरेकेण अन्यत् व्युत्थानकारणमपेक्षते । कः पुनः तेषा-
मभिप्राय इत्युच्यते - किं प्रयोजनं फलं साध्यं करिष्यामः
प्रजया साधनेन; प्रजा हि बाह्यलोकसाधनं निर्ज्ञाता; स
च बाह्यलोको नास्ति अस्माकम् आत्मव्यतिरिक्त: ; सर्व हि
अस्माकम् आत्मभूतमेव, सर्वस्य च वयम् आत्मभूता: ;
आत्मा च नः आत्मत्वादेव न कनचित् सोधनेन उत्पाद्यः
"
";