Proofing

This page has not been fully proofread.

क. २२.]
 
चतुर्थोऽध्यायः ।
 
६४७
 
,
 
एतमेवेति ; एतस्मिन्हि विदिते, केन कं पश्येदित्येवं क्रिया-
संभवात् मननमेव स्यात् । किं च एतमेव आत्मानं स्वं लो-
कम् इच्छन्तः प्रार्थयन्तः प्रव्राजिनः प्रव्रजनशीलाः प्रव्रजन्ति
प्रकर्षेण व्रजन्ति, सर्वाणि कर्माणि संन्यस्यन्तीत्यर्थः ।
' एतमेव लोकमिच्छन्तः' इत्यवधारणात् न बाह्यलोक-
त्रयेप्सूनां पारिव्राज्ये अधिकार इति गम्यते न हि गङ्गाद्वारं
प्रतिपित्सुः काशीदेशनिवासी पूर्वाभिमुख: प्रैति । तस्मात्
बाह्यलोकत्रयार्थिनां पुत्रकर्मापरब्रह्मविद्याः साधनम्, 'पुत्रे-
णायं लोको जय्यो नान्येन कर्मणा' इत्यादिश्रुतेः ; अतः
तदर्थिभिः पुत्रादिसाधनं प्रत्याख्याय, न पारिव्राज्यं प्रतिपत्तुं
युक्तम्, अतत्साधनत्वात्पारिव्राज्यस्य । तस्मात् ' एतमेव लो-
कमिच्छन्तः प्रव्रजन्ति " इति युक्तमवधारणम् । आत्मलोक-
प्राप्तिर्हि अविद्यानिवृत्तौ स्वात्मन्यवस्थानमेव । तस्मात् आ-
त्मानं चेत् लोकमिच्छति यः, तस्य सर्वक्रियोपरम एव
आत्मलोकसाधनं मुख्यम् अन्तरङ्गम्, यथा पुत्रादिरेव
बाह्यलोकत्रयस्य, पुत्रादिकर्मण आत्मलोकं प्रति असा-
धनत्वात् । असंभवेन च विरुद्धत्वमवोचाम । तस्मात्
आत्मानं लोकमिच्छन्तः प्रव्रजन्त्येव, सर्वक्रियाभ्यो नि.
वर्तेरन्नवेत्यर्थः । यथा च बाह्यलोकत्रयार्थिन: प्रतिनिय-
तानि पुत्रादीनि साधनानि विहितानि एवमात्मलोकार्थिनः