Proofing

This page has not been fully proofread.

६४६
 
बृहदारण्यकोपनिषद्भाष्ये
 
1
 
-
 
[ब्रा.
 
रा:' इत्यादिषु । गीतासु च -- 'यज्ञो दानं तपश्चैव पाव-
नानि मनीषिणाम् । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्म-
षा: इति । यज्ञेनेति — द्रव्ययज्ञा ज्ञानयज्ञाश्च संस्का-
रार्था: ; संस्कृतस्य च विशुद्धसत्त्वस्य ज्ञानोत्पत्तिरप्रतिबन्धेन
भविष्यति ; अतो यज्ञेन विविदिषन्ति । दानेन दानमपि
पापक्षय हेतुत्वात् धर्मवृद्धिहेतुत्वाच्च । तपसा, तप इति अवि-
शेषेण कृच्छ्रचान्द्रायणादिप्राप्तौ विशेषणम्-- अनाशकेनेति ;
कामानशनम् अनाशकम्, न तु भोजननिवृत्तिः ; भोजन-
निवृत्तौ म्रियत एव न आत्मवेदनम् । वेदानुवचनय-
ज्ञदानतपः शब्देन सर्वमेव नित्यं कर्म उपलक्ष्यते; एवं
काम्यवर्जितं नित्यं कर्मजातं सर्वम् आत्मज्ञानोत्पत्ति-
द्वारेण मोक्षसाधनत्वं प्रतिपद्यते ; एवं कर्मकाण्डेन अस्य
एकवाक्यतावगतिः । एवं यथोक्तेन न्यायेन एतमेव
आत्मानं विदित्वा यथाप्रकाशितम्, मुनिर्भवति, मननान्मु-
निः, योगी भवतीत्यर्थः ; एतमेव विदित्वा मुनिर्भवति, ना-
न्यम् । ननु अन्यवेदनेऽपि मुनित्वं स्यात् ; कथमवधार्यते-
एतमेवेति-- बाढम्, अन्य वेदनेऽपि मुनिर्भवेत् किं तु अ-
;
न्यवेदने न मुनिरेव स्यात्, किं तर्हि कर्म्यपि भवेत् सः ; ए-
तं तु औपनिषदं पुरुषं विदित्वा मुनिरेव स्यात्, न तु कर्मी;
अतः असाधारणं मुनित्वं विवक्षितमस्येति अवधारयति-
 
'