2026-05-06 06:30:25 by ambuda-bot
This page has not been fully proofread.
क. २२.]
चतुर्थोऽध्यायः ।
६४५
शेषितत्वात् समस्तग्राहि इदं वचनम् ; न च तदेकदेशोत्सर्गः
युक्तः । ननु त्वत्पक्षेऽपि उपनिषद्वर्जमिति एकदेशत्वं स्यात्-
न, आद्यव्याख्याने अविरोधात् अस्मत्पक्षे नैष दोषो भवति ;
यदा वेदानुवचनशब्देन नित्यः स्वाध्यायो विधीयते, तदा
उपनिषदपि गृहीतैवेति वेदानुवचनशब्दार्थैकदेशो न परि-
त्यक्तो भवति । यज्ञादिसहपाठाश्च -- यज्ञादीनि कर्माण्येव
अनुक्रमिष्यन् वेदानुवचनशब्दं प्रयुङ्क्ते; तस्मात् कर्मैव वेदा-
नुवचनशब्देनोच्यत इति गम्यते ; कर्म हि नित्यस्वाध्यायः ॥
कथं पुनः नित्यस्वाध्यायादिभिः कर्मभिः आत्मानं वि-
विदिषन्ति नैव हि तानि आत्मानं प्रकाशयन्ति, यथा
उपनिषद: - नैष दोष:, कर्मणां विशुद्धिहेतुत्वात्; कर्मभिः
संस्कृता हि विशुद्धात्मानः शक्नुवन्ति आत्मानमुपनिषत्प्र-
काशितम् अप्रतिबन्धेन वेदितुम्; तथा ह्याथर्वणे - 'विशु-
द्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमान: ' इति ; स्मृति-
श्व 'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मण:' इत्यादिः ।
कथं पुनः नित्यानि कर्माणि संस्कारार्थानीत्यवगम्यते ? ' स
आत्मयाजी यो वेदेदं मेऽनेनाङ्कं संस्क्रियत इवं मे-
ऽनेनाङ्गमुपधीयते' इत्यादिश्रुतेः सर्वेषु च स्मृतिशास्त्रेषु
कर्माणि संस्कारार्थान्येव आचक्षते ' अष्टाचत्वारिंशत्संस्का-