Proofing

This page has not been fully proofread.

६४४
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ४.
 
लयिता रक्षिता । एष सेतुः ; किंविशिष्ट इत्याह - विधरण :
वर्णाश्रमादिव्यवस्थाया विधारयिता; तदाह- एषां भूरा-
दीनां ब्रह्मलोकान्तानां लोकानाम् असंभेदाय असं भिन्नमर्या
दायै; परमेश्वरेण सेतुवद विधार्यमाणा लोकाः संभिन्नमर्यादा:
स्युः ; अतो लोकानामसंभेदाय सेतुभूतोऽयं परमेश्वरः, यः
स्वयं ज्योतिरात्मैव एवंवित् सर्वस्य वशी- इत्यादि ब्रह्मविद्या-
याः फलमेतन्निर्दिष्टम् । 'किंज्योतिरयं पुरुष: ' इत्येवमादि-
षष्ठप्रपाठक विहितायामेतस्यां ब्रह्मविद्यायाम् एवंफलायाम्
काम्यैकदेशवर्जितं कृत्स्नं कर्मकाण्डं तादर्थ्येन विनियुज्यते ;
तत् कथमित्युच्यते— तमेतम् एवंभूतमौपनिषदं पुरुषम्,
वेदानुवचनेन मन्त्रब्राह्मणाध्ययनेन नित्यस्वाध्याय लक्षणेन,
विविदिषन्ति वेदितुमिच्छन्ति; के ? ब्राह्मणाः; ब्राह्मणग्रह-
णमुपलक्षणार्थम् अविशिष्टो हि अधिकार : त्रयाणां वर्णा-
नाम्; अथवा कर्मकाण्डेन मन्त्रब्राह्मणेन वेदानुवचनेन वि
विदिषन्ति ; कथं विविदिषन्तीत्युच्यते - यज्ञेनेत्यादि ॥
 
ये पुनः मन्त्रब्राह्मणलक्षणेन वेदानुवचनेन प्रकाश्यमानं
विविदिषन्ति - इति व्याचक्षते, तेषाम् आरण्यकमात्रमेव वेदा-
नुवचनं स्यात् ; न हि कर्मकाण्डेन पर आत्मा प्रकाश्यते ; ' तं
त्वौपनिषदम्' इति विशेषश्रुतेः । वेदानुवचनेनेति च अवि-