2026-05-06 06:30:25 by ambuda-bot
This page has not been fully proofread.
क. २२.]
चतुर्थोऽध्यायः ।
"
,
६४३
प्रतिवचनत्वेन । स च सर्वस्य ब्रह्मेन्द्रादेः वशी; सर्वो हि
अस्य वशे वर्तते; उक्तं च ' एतस्य वा अक्षरस्य प्रशासने '
इति । न केवलं वशी, सर्वस्य ईशान: ईशिता च ब्रह्मेन्द्र -
प्रभृतीनाम् । ईशितृत्वं च कदाचित् जातिकृतम्, यथा राज-
कुमारस्य बलवत्तरानपि भृत्यान्प्रति, तद्वन्मा भूदित्याह -
सर्वस्याधिपतिः अधिष्ठाय पालयिता, स्वतन्त्र इत्यर्थः ; न
राजपुत्रवत् अमात्यादिभृत्यतन्त्रः । त्रयमप्येतत् वशित्वादि
हेतुहेतुमद्रूपम् -- यस्मात् सर्वस्याधिपतिः, ततोऽसौ सर्वस्ये-
शान: ; यो हि यमधिष्ठाय पालयति, स तं प्रतीष्ट एवेति
प्रसिद्धम्, यस्माच्च सर्वस्येशानः तस्मात् सर्वस्य व-
शीति । किंचान्यत् स एवंभूतो हृद्यन्तर्ज्योति: पुरुषो
विज्ञानमयः न साधुना शास्त्रविहितेन कर्मणा भूयान्भवति,
न वर्धते पूर्वावस्थात: केनचिद्धर्मेण ; नो एव शास्त्रप्रतिषि-
द्धेन असाधुना कर्मणा कनीयान् अल्पतरो भवति, पूर्वाव-
स्थातो न हीयत इत्यर्थः । किं च सर्वो हि अधिष्ठानपाल-
नादि कुर्वन् परानुग्रहपीडाकृतेन धर्माधर्माख्येन युज्यते ;
अस्यैव तु कथं तदभाव इत्युच्यते -- यस्मात् एष सर्वेश्वरः
सन् कर्मणोऽपीशितुं भवत्येव शीलमस्य, तस्मात् न कर्मणा
संबध्यते । किं च एष भूताधिपति: ब्रह्मादिस्तम्बपर्यन्तानां
भूतानामधिपतिरित्युक्तार्थे पदम् । एष भूतानां तेषामेव पा-