2026-05-06 06:30:24 by ambuda-bot
This page has not been fully proofread.
६४२
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. ४.
१.
तत् तथा वक्तव्यमिति तदर्थेयं कण्डिका आरभ्यते । तच
यथा अस्मिन्प्रपाठके अभिहितं सप्रयोजनम् अनूद्य अत्रैव
उपयोग: कृत्स्नस्य वेदस्य काम्यराशिवर्जितस्य -- इत्येव -
मर्थ उक्तार्थानुवादः 'स वा एष:' इत्यादिः । स इति उक्त-
परामर्शार्थः ; कोऽसौ उक्तः परामृश्यते ? तं प्रतिनिर्दिशति-
य एष विज्ञानमय इति - अतीतानन्तरवाक्योक्तसंप्रत्ययो मा
भूदिति य एषः कतमः एषः इत्युच्यते- विज्ञानमय:
प्राणेष्विति; उक्तवाक्योल्लिङ्गनं संशयनिवृत्त्यर्थम् ; उक्तं हि पूर्व
जनकप्रश्नारम्भे 'कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु '
इत्यादि । एतदुक्तं भवति -- योऽयम् 'विज्ञानमयः प्राणेषु '
इत्यादिना वाक्येन प्रतिपादितः स्वयं ज्योतिरात्मा, स एष:
कामकर्माविद्यानामनात्मधर्मत्वप्रतिपादनद्वारेण मोक्षित: पर-
मात्मभावमापादित:- पर एवायं नान्य इति ; एष स: सा-
क्षान्महानज आत्मेत्युक्तः । योऽयं विज्ञानमयः प्राणेष्विति
यथाव्याख्यातार्थ एव । य एषः अन्तर्हृदये हृदयपुण्डरीक-
मध्ये य एष आकाशो बुद्धिविज्ञानसंश्रयः, तस्मिन्नाकाशे
बुद्धिविज्ञानसहिते शेते तिष्ठति ; अथवा संप्रसादकाले अन्त-
हृदये य एष आकाश पर एव आत्मा निरुपाधिक: वि-
ज्ञानमयस्य स्वस्वभाव:, तस्मिन् स्वस्वभावे परमात्मनि आ-
काशाख्ये शेते; चतुर्थे एतव्याख्यातम् 'कैष तदाभूत्' इत्यस्य