2026-05-06 06:30:23 by ambuda-bot
This page has not been fully proofread.
क. २२.]
चतुर्थोऽध्यायः ।
६४१
तमेतं वेदानुवचनेन ब्राह्मणा विविदिष-
न्ति यज्ञेन दानेन तपसानाशकेनैतमेव
विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो
लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै
तत्पूर्वे विद्वासः प्रजां न कामयन्ते किं
प्रजया करिष्यामो येषां नोऽयमात्मायं
लोक इति ते ह स्म पुत्रैषणायाश्च वित्तै-
षणायाश्च लोकैषणायाश्च व्युत्थायाथ
भिक्षाचर्य चरन्ति या ह्येव पुत्रैषणा सा
वित्तैषणा या वित्तैषणा सा लोकैषणोभे
ह्येते एषणे एक भवतः । स एष नेति ने-
त्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि
शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्य-
थते न रिष्यत्येतमु हैवैते न तरत इत्यतः
पापमकरवमित्यतः कल्याणमकरवमित्यु-
हैवैष एते तरति नैनं कृताकृते तपतः ॥
सहेतुकौ बन्धमोक्ष अभिहितौ मन्त्रब्राह्मणाभ्याम् ;
लोकैश्च पुनः मोक्षस्वरूपं विस्तरेण प्रतिपादितम् एवम्
एतस्मिन् आत्मविषये सर्वो वेद: यथा उपयुक्तो भवति,
चतुर्थोऽध्यायः ।
६४१
तमेतं वेदानुवचनेन ब्राह्मणा विविदिष-
न्ति यज्ञेन दानेन तपसानाशकेनैतमेव
विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो
लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै
तत्पूर्वे विद्वासः प्रजां न कामयन्ते किं
प्रजया करिष्यामो येषां नोऽयमात्मायं
लोक इति ते ह स्म पुत्रैषणायाश्च वित्तै-
षणायाश्च लोकैषणायाश्च व्युत्थायाथ
भिक्षाचर्य चरन्ति या ह्येव पुत्रैषणा सा
वित्तैषणा या वित्तैषणा सा लोकैषणोभे
ह्येते एषणे एक भवतः । स एष नेति ने-
त्यात्मागृह्यो न हि गृह्यतेऽशीर्यो न हि
शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्य-
थते न रिष्यत्येतमु हैवैते न तरत इत्यतः
पापमकरवमित्यतः कल्याणमकरवमित्यु-
हैवैष एते तरति नैनं कृताकृते तपतः ॥
सहेतुकौ बन्धमोक्ष अभिहितौ मन्त्रब्राह्मणाभ्याम् ;
लोकैश्च पुनः मोक्षस्वरूपं विस्तरेण प्रतिपादितम् एवम्
एतस्मिन् आत्मविषये सर्वो वेद: यथा उपयुक्तो भवति,