2026-05-06 06:30:23 by ambuda-bot
This page has not been fully proofread.
६४०
बृहदारण्यकोपनिषद्भाष्ये
F
[ ब्रा. ४.
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्रा-
ह्मणः । नानुध्यायाद्बहुञ्छन्दान्वाचो वि.
ग्लापन हि तदिति ॥ २१ ॥
तम् ईदृशमात्मानमेव, धीरः धीमान् विज्ञाय उपदेशत:
शास्त्रतश्च, प्रज्ञां शास्त्राचर्योपदिष्टविषयां जिज्ञासापरिसमाप्ति-
करीम्, कुर्वीत ब्राह्मणः -- एवं प्रज्ञाकरणसाधनानि संन्यास-
शमदमोपरमतितिक्षासमाधानानि कुर्यादित्यर्थः । न अनुध्या-
यात् नानुचिन्तयेत्, बहून् प्रभूतान् शब्दान्; तत्र बहुत्वप्र-
तिषेधात् केवलात्मैकत्वप्रतिपादकाः स्वल्पाः शब्दा अनुज्ञाय-
न्ते ; ' ओमित्येवं ध्यायथ आत्मानम् ' ' अन्या वाचो विमु-
थ' इति च आथर्वणे। वाचो विग्लापनं विशेषेण ग्लानि-
करं श्रमकरम, हि यस्मात् तत् बहुशब्दाभिध्यानमिति ॥
स वा एष महानज आत्मा योऽयं
विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आ
काशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्ये-
शानः सर्वस्याधिपतिः स न साधुना क-
र्मणा भूयान्नो एवासाधुना कनीयानेष
सर्वेश्वर एष भूताधिपतिरेष भूतपाल
एष सेतुर्बिधरण एषां. लोकानामसंभेदाय
॥