Proofing

This page has not been fully proofread.

क. २०.]
 
चतुर्थोऽध्यायः ।
 
६३९
 
केन कं पश्येत् विजानीयात् इति प्रमातृप्रमाणादिव्या-
पारप्रतिषेधेनैव आगमोऽपि विज्ञापयति, न तु अभिधा-
नाभिधेयलक्षणवाक्यधर्माङ्गीकरणेन ; तस्मात् न आगमेनापि
स्वर्गमेर्वादिवत् तत् प्रतिपाद्यते ; प्रतिपादयित्रात्मभूतं हि
तत्; प्रतिपादयितुः प्रतिपादनस्य प्रतिपाद्यविषयत्वात्,
भेदे हि सति तत् भवति । ज्ञानं च तस्मिन् परात्मभाव -
निवृत्तिरेव ; न तस्मिन् साक्षात् आत्मभावः कर्तव्यः, विद्य-
मानत्वादात्मभावस्य ; नित्यो हि आत्मभावः सर्वस्य अत-
द्विषय इव प्रत्यवभासते ; तस्मात् अतद्विषयाभासनिवृत्ति-
व्यतिरेकेण न तस्मिन्नात्मभावो विधीयते ; अन्यात्मभावनि-
वृत्तौ, आत्मभावः स्वात्मनि स्वाभाविको यः, स केवलो
भवतीति - आत्मा ज्ञायत इत्युच्यते ; स्वतश्चाप्रमेयः प्रमा
णान्तरेण न विषयीक्रियते इति उभयमप्यविरुद्धमेव । वि-
रजः विगतरजः, रजो नाम धर्माधर्मादिमलम् तद्रहित
इत्येतत् । परः- परो व्यतिरिक्तः सूक्ष्मो व्यापी वा आका-
शादपि अव्याकृताख्यात् । अज: न जायते; जन्मप्रतिषे-
धातू उत्तरेऽपि भावविकाराः प्रतिषिद्धाः सर्वेषां जन्मादि-
त्वात् । आत्मा, महान्परिमाणतः, महत्तरः सर्वस्मात् ।
ध्रुवः अविनाशी ॥
 
S. B. U.II. 19
 
.,