Proofing

This page has not been fully proofread.

६३८
 
बृहदारण्यकोपनिषद्भाष्ये
 
[बा. ४.
 
तद्ब्रह्मदर्शने साधनमुच्यते — मनसैव परमार्थज्ञानसं-
स्कृतेन आचार्योपदेशपूर्वकं च अनुद्रष्टव्यम् । तत्र च दर्श-
नविषये ब्रह्मणि न इह नाना अस्ति किंचन किंचिदपि I;
असति नानात्वे, नानात्वमध्यारोपयति अविद्यया । सः मृत्योः
मरणात्, मृत्युं मरणम् आप्नोति ; कोऽसौ ? य इह नानेव
पश्यति । अविद्याध्यारोपणव्यतिरेकेण नास्ति परमार्थतो
द्वैतमित्यर्थः ॥
 
एकधैवानुद्रष्टव्यमेतद्प्रमयं ध्रुवम् ।
विरजः पर आकाशादज आत्मा महा-
ध्रुवः ॥ २० ॥
 
यस्मादेवम् तस्मात्, एकधैव एकेनैव प्रकारेण विज्ञानघ-
नैकरसप्रकारेण आकाशवन्निरन्तरेण अनुद्रष्टव्यम् यस्मात्
एतद्ब्रह्म अप्रमयम् अप्रमेयम्, सर्वैकत्वात्; अन्येन हि अन्यत्
प्रमीयते ; इदं तु एकमेव, अत: अप्रमेयम् ; ध्रुवं नित्यं कूटस्थम्
अविचालीत्यर्थः । ननु विरुद्धमिदमुच्यते - अप्रमेयं ज्ञायत
इति च; ' ज्ञायते ' इति प्रमाणैर्मीयत इत्यर्थः, ' अप्रमेयम्'
इति च तत्प्रतिषेध:- नैष दोष:, अन्यवस्तुवत् अनागम-
प्रमाणप्रमेयत्वप्रतिषेधार्थत्वात् ; यथा अन्यानि वस्तूनि आ-
गमनिरपेक्षैः प्रमाणैः विषयीक्रियन्ते, न तथा एतत् आ-
त्मतत्त्वं प्रमाणान्तरेण विषयीकर्तुं शक्यते; सर्वस्यात्मत्वे
 
--