2026-05-06 06:30:21 by ambuda-bot
This page has not been fully proofread.
क. १९.]
चतुर्थोऽध्यायः ।
६३७
स्मिन्नु खल्वक्षरे गार्ग्याकाश: '
इत्युक्तम् ; तमेव आत्मानम्
अमृतं ब्रह्म मन्ये अहम्, न चाहमात्मानं ततोऽन्यत्वेन
जाने । किं तर्हि ? अमृतोऽहम् ब्रह्म विद्वान्सन्; अज्ञानमात्रेण
तु मर्त्योऽहम् आसम् ; तदपगमात् विद्वानहम् अमृत एव ॥
प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रो
त्रस्य श्रोत्रं मनसो ये मनो विदुः । ते
निचिक्युर्ब्रह्म पुराणमज्ज्यम् ॥ १८ ॥
किं च तेन हि चैतन्यात्मज्योतिषा अवभास्यमानः प्राणः
आत्मभूतेन प्राणिति, तेन प्राणस्यापि प्राण: सः, तं प्राणस्य
प्राणम् ; तथा चक्षुषोऽपि चक्षुः ; उत श्रोत्रस्यापि श्रोत्रम् ;
ब्रह्मशक्त्यधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यम् ;
स्वतः काष्ठलेोष्टसमानि हि तानि चैतन्यात्मज्योतिः शून्यानि
मनसोऽपि मनः - इति ये विदुः - चक्षुरादिव्यापारानुमि-
तास्तित्वं प्रत्यगात्मानम्, न विषयभूतम् ये विदुः - ते निचि-
क्यु: निश्चयेन ज्ञातवन्त: ब्रह्म पुराणं चिरंतनम्, अग्र्यम्
अग्रे भवम् । ' तद्यदात्मविदो विदुः' इति ह्याथर्वणे ॥
'
मनसैवानुद्रष्टव्यं नेह नानास्ति किंच-
न । मृत्योः स मृत्युमाप्नोति य इह नानेव
पश्यति ॥ १९ ॥