Proofing

This page has not been fully proofread.

६३६
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. ४.
 
यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्त-
 
ते । तद्देवा ज्योतिषां ज्योतिरायुर्होपास-
तेऽमृतम् ॥ १६ ॥
 
किं च यस्मात् ईशानात् अर्वाक्, यस्मादन्यविषय एवे -
त्यर्थः, संवत्सरः कालात्मा सर्वस्य जनिमतः परिच्छेत्ता,
 
यम्
 
. अपरिच्छिन्दन् अर्वागेव वर्तते, अहोभिः स्वावयवैः अं-
होरात्रैरित्यर्थः ; तत्, ज्योतिषां ज्योति: आदित्यादिज्योतिषा-
मप्यवभामकत्वात्, आयुरित्युपासते देवा:, अमृतं ज्योति:-
अतोऽन्यम्रियते न हि ज्योति:; सर्वस्य हि एतज्ज्योति:
आयु: । आयुर्गुणेन यस्मात् देवा: तत् ज्योतिरुपासते,
तस्मात् आयुष्मन्तस्ते । तस्मात् आयुष्कामेन आयुर्गुणेन
उपास्यं ब्रह्मेत्यर्थः ॥
 
'
 
यस्मिन्पञ्च पञ्चजना आकाशश्च प्रति-
ष्ठितः । तमेव मन्य आत्मानं विद्वान्ब्र-
ह्यामृतोऽमृतम् ॥ १७ ॥
 
किं च यस्मिन् यत्र ब्रह्मणि, पञ्च पञ्चजना:- - गन्धर्वा-
दयः पञ्चैव संख्याताः गन्धर्वाः पितरो देवा असुरा रक्षां-
सि - निषादपञ्चमा वा वर्णाः, आकाशश्च अव्याकृताख्य:-
यस्मिन् सूत्रम् ओतं च प्रोतं च- यस्मिन्प्रतिष्ठितः ; " एत-