Proofing

This page has not been fully proofread.

क. १५. ]
 
चतुर्थोऽध्यायः ।
 
६३५
 
विदितवन्त इत्यर्थः । यथा च वयं ब्रह्म विदित्वा अस्माद्वि-
नशनाद्विप्रमुक्ताः, एवं ये तद्विदुः अमृतास्ते भवन्ति; ये
पुनः नैवं ब्रह्म विदुः, ते इतरे ब्रह्मविद्धयोऽन्ये ब्रह्म
इत्यर्थः, दुःखमेव जन्ममरणादिलक्षणमेव अपियन्ति प्रति-
पद्यन्ते, न कदाचिदपि अविदुषां ततो विनिवृत्तिरित्यर्थः ;
दुःखमेव हि ते आत्मत्वेनोपगच्छन्ति ॥
 
यदैतमनुपश्यत्यात्मानं देवमञ्जसा ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥
 
"
 
"
 
'
 
यदा पुनः एतम् आत्मानम्, कथंचित् परमकारुणिकं
कंचिदाचार्य प्राप्य ततो लब्धप्रसादः सन् अनु पश्चात्
पश्यति साक्षात्करोति स्वमात्मानम् देवं द्योतनवन्तम् दा-
तारं वा सर्वप्राणिकर्मफलानां यथाकर्मानुरूपम्, अवसा
साक्षात् ईशानं स्वामिनम् भूतभव्यस्य कालत्रयस्येत्ये-
तत् — न ततः तस्मादीशानाद्देवात् आत्मानं विशेषेण जु-
गुप्सते गोपायितुमिच्छति । सर्वो हि लोक ईश्वराद्गुप्तिमि-
च्छति भेददर्शी; अयं तु एकत्वदर्शी न बिभेति कुतश्चन ;
अतो न तदा विजुगुप्सते, यदा ईशानं देवम् अञ्जसा आ-
त्मत्वेन पश्यति । न तदा निन्दति वा कंचित् सर्वम्
आत्मानं हि पश्यति, स एवं पश्यन् कम् असौ निन्द्यात् ॥
 
'